________________
१२०
बृहत्कल्प-छेदसूत्रम् -१तञ्च मिश्रंस्थण्डिलमध्वनिग्रामानुग्रामंपथि व्रजतोद्रष्टव्यम् । तत्रमात्रकैर्यतनाकर्त्तव्या। अथमात्रकाणिन विद्यन्तेव्युत्सृजतां परिष्ठायतांच सागारिकसम्पातस्तदा धर्मास्तिकायादिप्रदेशान् निश्रीकृत्य व्युत्स्रष्टव्यम् । उक्तञ्च
जहियंपुन सागारिय, धम्मादिपएस तहिय निस्साए।
वोसिरइ एय मीसं, भणिय समासेण थंडिल्लं ।। उक्तं मिश्रं स्थण्डिलम् । तदभावेऽपवादतः सचित्तमपि गन्तव्यम् । तदप्यनापातासंलोकादिभेदतश्चतुःप्रकारम् । तस्यापि च त्रयः पन्थानः, तद्यथा-अचित्तो मिश्रः सचित्तश्च ।। तत्र येन क्रमेण गन्तव्यं तं क्रममाह[भा.४६९] अच्चित्तेण सचित्तं, मीसेण सचित्त छक्कमीसेण।
सच्चित्त छक्कएणं, सचित्त चउभंगिय पदेसे ।। वृ-सचित्तमपि स्थण्डिलंचतुर्भङ्गिकम्। तत्र प्रथमतोऽनापातासंलोकंगन्तव्यम्, तदभावे द्वितीयम्, तदभावेतृतीयम्, तदभावेचतुर्थमपि।तत्रयतनाप्रागेवोक्ता।तत्रचप्रथमतोऽचित्तेन पथागन्तव्यम्।तदभावेतत्सचित्तं मिश्रेण पथा गम्यम्, केन मिश्रेण? इत्यतआह-'षट्कमिश्रेण' षडजीवनिकायमिश्रेण । तस्यासम्भवेसचित्तेनपथा सचिततं गन्तव्यम्, केन सचित्तेन? 'षट्केन' षडजीवनिकायैः । अत्रापि मात्रकैर्यतना कर्तव्या । मात्रकाणामभावे व्युत्सर्गे परिष्ठापने वा सागारिकसम्भवे धर्मास्तिकायादिप्रदेशानां निश्रा कर्तव्या । उक्तञ्च
ज च्चिय मीसे जयणा, सेव सचित्ते विहोइ कायव्वा ।
____ मत्तादि अपरिसेसा, जा धम्मादीपएसा उ॥ तदेवमुक्तं स्थण्डिलम् । इदानीमेतस्य यः कल्पिकस्तमभिधित्सुराह[भा.४७०]पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति ।
आलोयाऽऽयरियादी, आयरिओ विसोहिकारो से । वृ-यस्मादजानतः प्रायश्चित्तं तस्माद् येन सप्तसप्तकादिसूत्रं पठितं पाठतः श्रुतमर्थतः तच्च ‘गुणितम्' अभ्यस्तं वा स्यादगुणितं वाधारितं वा स्यादनवधारितं वा तथापि यः उपयुक्तः सन् स्थण्डिलं 'परिहरति' उक्तप्रकारेणोपयुक्तः परिभोगयति स विचारे कल्पिकः । तथा तेन स्थण्डिलसूत्रेण पठितेन वा श्रुतेन वा गुणितेन वा अगुणितेन वा धारितेन वा अधारितेन वा उपयुक्तो वाऽनुपयुक्तो वा यां विराधनां करोति तामाचायदिरालोचयति । प्रथमत आचार्यस्य पुरत आलोचयति, तदभावेऽन्यस्याप्युपाध्यायादेरालोचिते च ‘से' तस्य 'विशोधिकारः' प्रायश्चित्तप्रदानेन शुद्धिकर्ता आचार्याः । किमुक्तं भवति?-यद् आचार्या प्रायश्चित्तं ददति तेन स शुद्धिमापद्यते ॥गतं विचारद्वारम् । अधुना लेपद्वारमाह[भा.४७१]अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुका।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा॥ वृ-'सूत्रे' पात्रैषणालक्षणे अप्राप्ते यदि लेपस्याऽऽनयनाय प्रेषयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः द्वाभ्यां गुरुकाः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ प्राप्तेऽपि श्रुते तदर्थमकथयित्वाकथनेऽपि अधिगतस्तदर्थोनवा' इत्यपरिज्ञायअधिगतमपि 'सम्यक्श्रद्दधाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org