________________
११८
बृहत्कल्प-छेदसूत्रम् -१जयणाए" इति पुरुषालोके पुरुषालोकवतिगन्तव्यम्, तत्र यतनयाभवतिकर्तव्यमाचमनादि। तामेव यतनामाह-“मत्तग अपमज्जण डगल कुरुग" त्ति प्रत्येकं मात्रकं ग्रहीतव्यम्, प्रत्येकं च प्रचुरं द्रवम्, डगलकानां चाप्रमार्जनम्-न तानि डगलकानि प्रमाय॑न्ते हीलादोषसम्भवात्, कुरुकुचाश्चाचमनान्तरं कर्तव्या । “तिविहे दुविहभेओ" इति, त्रिविधे प्रत्येकं द्विविधो भेदो द्रष्टव्यः । इयमत्र भावना-त्रिविधः परपक्षः, तद्यथा-पुरुषः स्त्री नपुंसकः । एकैकः पुनर्द्विधाशौचवादीअशौचवादी च, अथवाऽन्यथा प्रत्येकं द्विभेदत्ता-श्रोवकोऽश्रावकश्च।अथवा त्रिविधो भेदो नाम स्थविरो मध्यमस्तरुणश्च, यदि वा प्राकृतः कौटुम्बिको दण्डिकश्च । एते च त्रयो भेदा यथा पुरुषस्य तथा स्त्री-नपुंसकयोरपिद्रष्टव्याः। तेषुयतनया गन्तव्यम्॥कथम्? इत्यतआह[भा.४६४] तेन परंपुरिसाणं, असोयवादीण वच्च आवायं ।
इत्थि-नपुंसालोए, परम्मुहो कुरुकुया साय॥ वृ-'ततः' पुरुषालोकवतः स्थण्डिलात् 'परतः' पुरुषालोकवतः स्थण्डिलस्यासति पुरुषाणामशौचवादिनाम् 'आपातम्' आपातवत्स्थण्डिलंव्रजेत्।तत्रचयतनाप्रागुक्ताद्रष्टव्या। तस्याप्यसम्भवे शौचवादिनामप्यापातवद् गन्तव्यम् । तस्यासम्भवे स्त्र्यालोके नपुंसकालोके वा गन्तव्यम् । इयमत्र भावना-प्रथमतोऽशौचवादिनीनां स्त्रीणामालोके गन्तव्यम्, तत्र गतः सन् तासां पराङ्मुख उपविशेत्, यतना च सा कुरुकुचादिका कर्तव्या । तस्याप्यसम्भवे शौचवादिनीनामप्यालोके गन्तव्यम् । तदभावे नपुंसकानामशौचवादिनामालोके । तस्यासम्भवे शौचवादिनामप्यालोके । यतना सर्वत्र सैव॥ [भा.४६५] तेन परं आवायं, पुरिसेयर-इत्थियाण तिरियाणं ।
तत्थ विय परिहरेज्जा, दुगुंछिए दित्तऽदित्ते य॥ वृ-'ततः परं शौचवादिनामपि नपुंसकानामालोकस्यासम्भवे 'पुरुषेतरस्त्रीणां पुरुषनपुंसस्त्रीणां तिरश्चामापाते व्रजेत्, तत्रापिद्दप्तानद्दतांश्च जुगुप्सितान्परिहरेत्, अपरिहारे यतनां कुर्यात् । अयमत्रभावार्थ-शौचवादिनां नपुंसकानामालोकासम्भवेतिर्यक्पुरुषाणामदुष्टानामापाते व्रजेत्, तस्यासम्भवे दुष्टानामापाते व्रजेत, तत्रेयं यतना-दण्ड-हस्ता वारंवारेण व्युत्सृजन्ति । उक्तञ्च
तेन परं पुरिसाणं, असोयवादीण वच्च आवायं । पच्छित्थि-नपुंसाणं, आलोय परम्मुहा कुरुया॥ पच्छा तिरिपुरिसाणमदुट्ठ-दुट्ठाण वच्च आवायं।
दुढेसुदंड-हत्था, वारंवारेण वोसिरणं ।। तस्याप्यभावे तिर्यकस्त्रीणामजुगुप्सितानामापातं व्रजेत् । तदसम्भवे जुगुप्सितानामप्यापातम् । तदभावे तिर्यग्नपुंसकानामजुगुप्सितानामापातम् । तदभावे जुगुप्सितानामप्यापातम्, केवलंतत्र तथोपविशन्ति यथा परस्परं सर्वेसर्वं प्रेक्षन्ते ।। [भा.४६६] तत्तो इत्थि-नपुंसा, तिविहा तत्थ वि असोयवाईणं ।
___ तहियं च सद्दकरणं, आउलगमणं कुरुकुया य॥ वृ-ततः स्त्री-नपुंसकानामापातेगन्तव्यम्।तेचस्त्री-नपुंसकास्त्रीविधाः, तद्यथा-प्राकृताः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org