________________
९२
आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् ६८ मू. (६९) निक्कसायस्स दंतस्स, सूरस्स ववसाइणो।
संसारपरिभीयस्स, पच्चक्खाणं सुहं भवे ॥ निष्कषायस्य कषायरहितस्य दांतस्य इंद्रिय दमेन सूरस्य मोहमल्लजये, व्यवसायित आराधना पताका लाभाय संसारपरिभीतस्य भीरो । प्रत्या० अनशन प्रतिपत्तिरूपं शुभं भवतु। मू. (७०) एवं पञ्चक्खाणं जो काही मरणदेसकालम्मि।
धीरो अमूढसन्नो सो गच्छइ सासयं ठाणं॥ एतत् प्रत्याख्यानं अनशन प्रतिपत्तिरूपं यः कोपि अन्योपि करिष्यति मरणदेशकाले धीरो विद्वान न मूढा संज्ञा ज्ञानं यस्य सो अमूढसंज्ञः । संपूर्णज्ञानं इत्यर्थः । (स गच्छतियात्युत्तम स्थानं मोक्षस्थानमित्यर्थः।) मू. (७१) धीरो जरमरणविऊ वीरो विन्नाणनाणसंपन्नो।
लोगस्सुजोयगरो दिसउ खयं सव्वदुक्खाणं॥ धियाराजत इति धीरस्तीर्थकृताजरामरणे वृद्धत्वनिधने वेत्वीतिजरामरणवित्तथाधियं बुद्धिं सर्वेषां भव्यानामराति ददातीतिधीरः । विशिष्टंज्ञानं केवलज्ञानं । ज्ञायत इति ज्ञानं । तदेव सामान्यावबोधरूपंताभ्यां संपन्न संयुक्तः लोकस्य चतुर्दशरज्ज्वात्मकयोद्योतकरोतुक्षयंविनासं सर्वदुरितानां सर्व पापानां सर्वकर्माणमित्यर्थः।।
मुनि दीपरलसागरेण संशोधिता सम्पादिता आतुरप्रत्याख्यान प्रकीर्णकस्य ___गुणरत्लसूरिविरचिता टीका (अवचूर्णिः) परिसमाप्ता २५ | द्वितीय प्रकीर्णकं आतुरप्रत्याख्यानं समाप्त
***
kk
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org