________________
मू०२
उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाहमू. (३) सणयारविसोही चउवीसायत्थएण किञ्जइ अ।
अच्चब्भुअगुणकित्तणरूवेण जिनवरिंदाणं । वृ.दसणे' त्यादि, दर्शनं-सम्यक्त्वंतस्याचारो-निरशङ्कितेत्याद्यष्टविधः तस्य विशोधिनिर्मलता चतुर्विंशतेरात्मनां- जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र सचतुर्विंशत्यात्मस्तवो-लोगस्सेत्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणे'तिपाठेजिनानांचतुर्विंशत्याः स्तवेनेत्यर्थः, चकारोद्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह-'अच्चमुअ'इत्यादि, अत्यद्भुताः-सर्वातिशायिनो लोकोद्योतकरादयो येगुणास्तेषां यदुत्कीर्तनं-वर्णनं तद्रूपेण, केषां तदित्याह-जिनवरिंदाणं तिजिना-रागादिजयादुपशान्तमोहादयस्तेषांमध्ये वरा:-केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः॥
उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाहमू. (1) नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ।
वंदनएणं विहिणा कीरइ सोही उ तेसिंतु॥ वृ. 'नाणाईआ' इति नाणतिज्ञानाचारः कालविनयाद्यष्टविधः आदिशब्दाद्दर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव चन्दनका) नान्यो ज्ञानवानपि पार्श्वस्थादिव्यवहारतः चारित्रवानपि निहवादिरितिज्ञापनार्यः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैनिादिगुणैस्सम्पन्ना-युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिःभक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन?-वन्दनकेन, कथं? -विधिना-द्वात्रिंशद्दोषरहिततयापञ्चविंशत्यावश्यकविशुद्धतया च, 'तेसिंतु'त्ति तेषांज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राकशोधितयोरपि पुनर्विशेषेण शोधि क्रियते इत्यर्थः।
उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन
तामाह
मू. (५) खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं ।
तेणं पडिकमणेण तेसिपि य कीरए सोही॥ वृ.स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाइ'इति यनिन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारस्खलितस्य यनिन्दनादिकरणं-तस्माद्दोषजातान्निवर्त्तनंत प्रतिक्रमणमुच्यते इतिशेषः, प्रतीपंक्रमणं प्रतिक्रमणं इति व्युत्पत्ति, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधि-निर्मलतेति। __ मू. (६) चरणाइयाइयाणं जहक्कमवणतिगिच्छरूवेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org