SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ चतुःशरण-प्रकिर्णकसूत्रम् १ नमो नमो निम्मल सणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः २४ चतुःशरण-प्रकिर्णकसूत्रम् सटीकं (प्रथमं प्रकिर्णकम्) (वीरभद्रमुनिप्रणितं मूलसूत्रम् +विजयविमलगणिविरचिता-वृत्तिः/अवचूर्णिः) वृ.इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्यमङ्गलभूतगजादि १४ स्वप्नोच्चारव्यासर्वतीर्थकृद्गुणस्मरणवर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह-'सावजे ति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुःशरणप्रतिपत्यादियोग्यता स्यादतः प्रथमंषडावश्यकमाहमू. (१) सावजजोगविरई २ उक्त्तिण २ गुणवओ अपडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव॥ ७. 'सावजेत्यादि, सहावद्येन-पापेनवर्तन्तेइति सावद्याः योगा-मनोवाक्कायरूपाव्यापारास्तेषां विरति-निवृत्ति सावद्ययोगविरति सा सामायिकेन क्रियते इत्यध्याहारः १, उत्कीर्तनंजिनगुणानामुत्कीर्तना, साचतुर्विंशतिस्ततेन क्रियते २, गुणा-ज्ञानदर्शनचारित्राद्याः तेविद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्ति-भक्तिर्गुणवत्प्रतिपत्ति सा वन्दने क्रियते ३, स्खलनं स्खलितं आत्मनोऽतिचारापादनंतस्य निन्दनं-निन्दनान पुनः करिष्येइत्यभ्युपगमनंसा प्रतिक्रणेन क्रियते ४, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणा-विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारण सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाहमू. (२) चारित्तस्स विसोही कीरइ सामाइएण किल इहयं। सावजेअरजोगाण वज्जणाऽऽसेवणत्तणओ॥ वृ. 'चारित्ते'त्यादि, चारित्रस्य-चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधि-निर्मलता क्रियते, केन ?-सामायिकेन-समभावलक्षणेन 'किले'ति सत्ये' ‘इहयंति इहैवजिनशासनेनान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषायाअप्यभावात्, कथंसामायिकेन विशोधि क्रियते? इत्याह-'सावजेत्तिसावद्याः-सपापाइतरे च-निरवद्यायेयोगाः-कायादिव्यापारास्तेषांयथासङ्खये येवर्जनासेवनेताभ्यां वर्जनासेवनातःसावद्यानांवर्जनतः इतराणां त्वासेवनतश्च तेन विशोधि क्रियते इति तात्पर्यार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy