________________
२५८
गच्छाचार-प्रकिर्णकसूत्रम् १३६ महागर्जितध्वनि ५, सनध्याप्रभा चन्द्रप्रभा च यत्र युगपद्भवतस्तत् जूयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपगच्छतीति ।
श्रुतस्य-महानिशीथकल्पादेः सिद्धान्तस्य निस्यन्दं-सारभूतंबिन्दुभूतंवासुष्टु-अतिशयेन उत्तमं 'सूत्तम प्रधानतमं तदुक्तक्रियाकरणेन मोक्षगमनहेतुत्वादिति ।। किञ्चमू. (१३७) गच्छायारं सुणित्ताणं, पढिता भिक्खुभिक्खुणी।
कुणंतु जहाभणियं इच्छंता हियमप्पणो॥ वृ. गच्छा० ॥ एनं 'गच्छाचार' सत्साधुगणमर्यादारूपं 'श्रुत्वा सद्गुरुभ्योऽर्थमाकण्यं 'पठित्वा' मोक्षमार्गसाधकसाधुपार्श्वेयोगोद्वहनविधिनासूत्रंगृहीत्वा साधवः' मुमुक्षवः 'भिक्षुण्यः' व्रतिन्यश्च 'कुर्वन्तु' निष्पादयन्तु यद् यथाऽत्र भणितं तत्तथेति ‘इच्छन्तः' वाञ्छां कुर्वन्तः हितं' पथ्यं, कस्य?, आत्मनः॥
|३० सप्तमं प्रकीर्णकं "गच्छाचार" समाप्तम् ।
वृ.इतिश्रीविजयदानसूरिविजयमानराज्ये भव्यसुमनःसुमनस्सुपतीनां दुष्टदुःखाकुलदुर्जटस्थिरजिह्वव्याप्तनिर्दयदुर्बोधज्ञानान्धकुगुरुवचनोपदेशाग्निधूम्रश्याममुखोत्सूवारुण्यपवित्रास्यकुमतिकुवास नावेलाभयङ्करकलहपकबहुलकुराजग दुश्चारकुसाधुमहाडम्भागाधमदमहत्तुङ्गपर्वतसङ्कीर्णशारीर मानसदुःखमयदुष्षमाकालकलिलागरनिमज्जज्जन्तुपोतायमानानां श्रीतपगणमुनिनक्षत्रगणितानन्तानन्तकुमतिकुमतिकुवृष्टयाद्रीकृतमुग्धध्यनन्ताशोयत्तपस्तेजोजग दुदद्योतयत्सुणसङ्घकमलोज्जम्भयदज्ञानतमःकर्षयप्रत्यूषाण्डानांपावनीकृतात्मनां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण वानराख्येन पण्डितश्रीहर्षकुलावाप्तगच्छाचारहस्येन गच्छाचारप्रकीर्णकटीकेयं समर्थिता, आगमज्ञैः संशोध्येति, मममूर्खशिरोमणेः कोऽपिदोषोनकर्षणीयः, अत्र मय यजिनाज्ञाविरुद्धं लिखितं व्याख्यातंचतन्मम त्रिविधंत्रिविधेन मिथ्यादुष्कृतं भवतु॥ मुनि दीपरत्न सागरेण संशोधिता सम्पादिता गच्छाचारप्रकिर्णकस्य
वानर्षिगणि विरचिता टीका परिसमाप्ता।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org