SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ मू० १३५ श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन्तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्गता अतत्कालिका अपि तीर्थे वर्त्तमानास्तेऽत्राधिकृता द्रष्टव्याः २ । एतदेव मतान्तरमुपदर्शयन्नाह - ' अहवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या १ वैनयिक्या २ कर्मजया ३ परिणामिक्या ४ चतुर्विधया बुद्ध्या उपेताः - समन्विता आसीरन् तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन्, प्रत्येकबुद्धा अपि तावन्त एव २ । अके व्याचक्षते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धिपरमाणप्रतिपादनात्, स्यादेतत् प्रत्येकबुद्धानां शिष्यभावोविरुध्यते, तदेतदसमीचीनं, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि ततो न कश्चिद्दोषः, तथा च तेषां ग्रन्थः । “इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीय तत्तिया चेव"त्ति, चोयग आह- ननु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ?, आयरिओ आह- तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंती 'ति । अन्ये पुनरेवमाहुः - सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानंनतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत' मित्यादि, तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । मू. (१३६) पढंतु साहुणो एयं, असज्झायं विवज्जि उत्तमं सुयनिस्संद, गच्छायारं सुउत्तमं ॥ Jain Education International २५७ वृ. पढंतु० ॥ 'पठन्तु' व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु 'साधवः' मोक्षसाधनतत्परमुनयः, उपलक्षणत्वात् साध्योऽपि ननु यदुक्तं साधुसाध्व्य एव पठन्त किं श्राद्धादयो न सिद्धान्तं पठन्ति ?, उच्यते, न पठन्त्येव यदुक्तं श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते "जेभिक्खू वा भिक्खुणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वाणंतं वा साइज्जइ" अस्य चूर्णिः - गिही अन्नतित्थिया वा वाएयव्वा, इत्थ दसमउद्देसाओ अत्थो जहा - अन्नउत्थियं वा गारत्थियं वा वायति अन्नतित्थगा अन्नतित्थिणीओ अहवा गिहत्था गिहत्थी ओत्ति, भवे कारणं वाएज्जावि, 'पव्वज्जाए' गाहा, गिहि अन्नपासंडिया पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जाव सुत्तत्थो अत्यओ जाव पिंडेसणा, एस गिहत्थाइसु अववाओ "त्ति । तथा 'एयं' ति एनं गच्छाचारं पूर्वोक्त शब्दार्थ, किं विधाय ? - 'अस्वाध्यायं' अपठनप्रस्तावं स्थानाङ्गोक्तं 'वर्जयित्वा' परित्यज्य, स्थानाङ्गोक्ता अस्वाध्याया यथा - "दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते, तंजहा - उक्कावाए १ दिसिदाहे २ गजिए ३ विज्जुए ४ निग्घाए ५ जूवए ६ क्खात्तिए ७ धूमि ८ महिया ९ रयउग्घाए १०" इदं सूत्रम्, अस्य वृत्ति 'अंत०' आकाशभवं 'अस०' अवाचनादि दिग्विभागे महानगरप्रदीपनकमिव य उदद्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाहः २, 'निर्घातः' साभ्रे निरभ्रे वा गगने व्यन्तरकृतो 14 17 For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy