________________
गच्छाचार - प्रकिर्णकसूत्रम् १२५ यदुक्तमोघनिर्युक्तौ - “खरउ द्वयक्षरो दासप्रायः द्वयक्षरिका दासी "ति, घोटकशब्देन द्यूतकारादिघूत्ताः, यदुक्तं निशीषचूर्णी - "घोडेहिं गाहा - घोडा वट्ठा जूयक्करादिधुत्ता' इति, आदिशदादन्येऽपि ताशा, ग्राह्याः, तथा 'तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने व्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे ते ताभि सह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति ।
तथा 'उपाश्रयसमीपे ' साध्वीवसतिपार्श्वे वेश्या स्त्री तस्याः यद्वा वेश्यो ना ततसध्शा याः स्त्रियस्तासां, यद्वा वेश्यायाः स्त्री दासीलक्षणा तस्याः, यद्वा वेश्या या स्त्री नटपुरुषमेलापलक्षणा तस्याः, वेश्या स्त्री तत्पुत्रीलक्षणा तस्या वा, अथवा वेषस्त्री - योगिन्यादिवेषधारिका तस्याः, यदिवा वेषस्य-रजोहरणादिद्रव्यलिङ्गस्य अर्थ - उदरपूरणमुग्धवञ्चनादिप्रयोजनं वेषार्थः स च विद्यते यस्यासी वेषार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आर्षत्वाद्दीर्घः, तस्य संसर्गे भवति है गौतम ! साऽऽर्या द्व्यक्षरिकोच्यते नत्वार्येति ॥
मू. (१२६)
२५२
छक्कामुक्कजोगा धम्मकहा विगह पेसण गिहीणं । गिहिनिस्पिज्जं वाहिति संथवं तह करंतीओ ॥
वृ. छक्का० ॥ षट्कायमुक्तयोगाः' को भावः ? - षट्कायेषु - पृथिव्यादिषु मुक्तो - दूरीकृतो योगो - यनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा तथा विकथां परस्परं विधवादिसार्द्धं वा स्त्र्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादी प्रेषणं कुर्वन्ति 'गृहनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थं, मुञ्चन्तीत्यर्थः, यदिवा गृहिणां निषद्या-चक्कलकगद्दिकादिरूपा तां 'वाहिंती' ति व्यापारयन्तीत्यर्थः ।
संस्तवो द्विधा गुणसम्बन्धिसंस्तवभेदात्, एकैको द्विधा पूर्वपश्चाद्भावित्वात्, तत्र दानात्पूर्वं पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वं श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपट्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं सस्तवं 'करंतीउ' त्ति कुर्वन्त्यस्ताः साध्व्यो न भवन्तीति ॥
मू. (१२७)
समा सीसपडिच्छीणं, चोअणासु अनालसा ।
गणिणी गुणसंपन्ना, पसत्थपरिसागुणा ।।
वृ. समा सी० ॥ 'समाः' तुल्या भवन्ति रागद्वेषपरिणामाभावात् 'सीस' त्ति स्वशिष्याःस्वसङ्घाटिका इत्यर्थ: प्रतीच्छिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्याद्यर्थमागतास्तासां तासु वेति, 'चोयणासु' त्ति नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' सर्वथाऽऽलस्यरहिताः, गुणाःज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः समन्विताः, प्रशस्ता-क्षमाविनयवैयावृत्यादिगुणयुक्तत्वात् परिषत् - परिवाररूपा तयाऽनुगताः - सदासंयुक्ताः, एवंविधो गणः - साध्वीपरिवाररूपो विद्यते यासां ता गणिन्यो- मुख्यसाध्व्यो भवन्तीति ॥
मू. (१२८)
संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायझाणजुत्तां य, संगहे अविसारया ॥
वृ. संवि० ॥ 'संविग्ना' परमसंवेगरसलीना भीता-भयं प्राप्ता परिषत् - परिवारो यासां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International