________________
२४८
गच्छाचार-प्रकिर्णकसूत्रम् ११०
मू. (१११) जत्थ य निहत्थभासाहिं भासए अजिआ सुरुठ्ठावि ।
तंगच्छंगुणसायर ! समणगुणविवज्जियं जाण ।। वृ. जत्थ० ॥यत्र गणेच 'गृहस्थभाषाभिः' सावद्यरूपाभिर्भाषते, गृहस्थानां यथा-तव गृहं ज्वलतु तव पुत्रो यमगृहे गच्छतु त्वं तवाम्बाऽपि शाकिन्यौ स्तः, साध्वीनां यथा-तव शबं कर्षयामि तव दन्तपङ्क्तिं पातयामि तव चरणौ कर्त्तयामि तव जठरेऽग्निक्षेपं कुरु रे शाकिनि ! रे रण्डे ! इत्यादि भाषते, आर्यिका अधमा मुण्डी सुरुष्टा-अतिशयेन क्रोधाग्निना ज्वलिता, अपिशब्दात्स्वभावस्थाऽपिगृहस्थभाषाभिर्भाषते-तवगृहं पतितं दृश्यतेकथं तत्रोद्यम न कुरुषे ?
___ तवपुत्रीवृद्धाऽस्तिवरगवेषणंकुरुत्वं, त्वया सुष्ठुकृतो विवाहः तवपुत्रवधूटी भव्याऽस्ति तव गृहे महिषी दुर्बलाऽस्ति, यौतकं कथं न ददासि ? वध्वा आणकं कथं न क्रियताम् ? इत्यादिरूपामिति, तं गच्छं हे गुणसागर ! श्रमणगुणविवर्जितं 'जानीहि' अवगच्छ, अन्यत् किं कथ्यत इति॥ मू. (११२) गणिगोअम! जा उचियं, सेयं वत्थं विवजिउं ।
सेवए चित्तरूवाणि, न सा अजा वियाहिया ॥ वृ. गणिगो० ॥ हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्यं 'वस्त्र' वसनं 'विवर्य' परित्यज्य सेवते 'चित्ररूपाणि' विविधभरतादियुक्तानि वस्त्राणि, यद्वा चित्राणिआश्चर्यकराणि रूपाणि-गूलकूद्दद्विकाकमलादीनि येषां तानि चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिनप्रवचनोड्डाहकारिणीति॥ मू. (११३) सीयणं तुण्णणं भरणं, निहत्थाणं तुजा करे।
तिल्लउब्वट्टणं वावि, अप्पणो य परस्स य॥ वृ.सीव०॥याऽऽर्यासीवनं खण्डितवस्त्रादेः तुन्ननंजीर्णवस्त्रादेः भरणं कञ्चकटोपिकाकुञ्चिकादीनां भरतभरणं गृहस्थानां तुशब्दाद्गृहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात्घृतदुग्धतरिकादिना 'उद्वर्तनं' अङ्गोपाङ्गानांमर्दनंतैलोद्वर्तनंअपिशब्दादङ्गक्षालनविविधमण्डनादिकंकरोतिसुभद्राऽऽर्यादिवत् ‘आत्मनश्च' स्वस्य ‘परस्यच' गृहस्थबालकादेः सा “पासत्था पासत्थविहारणी उसन्ना उसन्नविहारणी कुसीला कुसीलविहारणी" त्यादिदोषान्विताऽवगन्तव्येति ॥ मू. (११४) गच्छइ सविलासगई सयमीअंतूलीअंसबिब्बोअं।
उबट्टेइ सरीरं सिणाणमाईणि जा कुणइ ॥ वृ. गच्छइ० ॥ ‘गच्छइ सविलासगईत्ति अत्रापि बिब्बोकशब्दस्य परामर्श, या आर्या बिब्बोकपूर्वकं यथा स्यात्तथा 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, बिब्बोकविलासयोर्लक्षणं यथाः ॥१॥ “इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः ।
स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org