________________
-
मू० १०८
२४७ इटूण हरिज्जा उड्डाहं वा करंति, पच्छन्नं वा रायाई भममाणो संकिञ्जा-का एसा?, चोरावि अवहरंति, वत्थाईयं वा गिण्हंति, अहवा कयाई गुरुणीए फरुसंचोयणं संभरमाणी पुव्वकीलियंवा रयणीए विसेसओ संभरइ तो एगागिणी कत्थवि गच्छिज्जा, इच्चाइ दोसमूलं नाऊण रयणीए एगागिणीए समणीए उवस्सयाओ बाहिं सया न गंतव्वं"ति॥ मू. (१०९) जत्थ य एगा समणी एगो समणो य जंपए सोम ।
नियबंधुणावि सद्धिं तंगच्छं गच्छगुणहीणं॥ वृ.जत्यय० ॥यत्रचोत्सर्गेणैकाकिनी श्रमणी-मुण्डीएकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, यद्वा एकाकी साधुञ्जिभगिन्याऽपि सार्द्धं जल्पति हे सौम्य !-हे गौतम ! तं गच्छं गच्छगुणहीनं जानीहि । यत एकाकिन्या सार्द्धं जल्पनेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति । तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्तञ्च॥१॥ “संदंसणेण पीई १ पीईउरई २ रईउ वीसंभो ३।
वीसंभाओ पणओ४ पणयावि अभवइ पडिबंधो ५॥" साध्वीनां संदर्शनेन साधूनां प्रीतिरुत्पद्यते १, प्रीत्या चित्तसमाधानं २, ततो विश्रम्भो-विश्वासः ३, विश्वासाप्रणयः-स्नेहः ४, तस्मा प्रतिबन्धः ५ ॥ ॥१॥ “जह जह करेसि नेहं तह तह नेहो अवड्डइ तुमंसि।
तेण नडिओमि बलियं जंपुच्छसि दुब्बलतरोसि ।। हे साध्वि! यथा यथा त्वं मम स्नेहं संपादयसि तथा २ मम त्वयि स्नेहो वर्द्धते, तेन स्नेहेन नटितोऽस्मि यत्वं पृच्छसि दुर्बलतरोऽसि ॥ ॥१॥ "इय संदंसणसंभासणेण संदीविओ मयणवण्ही।
बंभाई गुणरयणे डहइ अनिच्छेविपमयाओ।" इति, स्त्रीणां रण्डाकुरण्डादीनांसाध्वीनांमुण्डीवेषधारणीनां साधुसंयमनृपविषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवह्निर्ब्रह्मचर्यादीन् गुणरत्नान् प्रमादात् अनिच्छतोऽपि साधोर्दहतीति॥ मू. (११०) जत्थ जयारमयारं समणी जंपइ गिहत्थपञ्चक्खं ।
पच्चक्खं संसारे अजा पक्खिवइ अप्पाणं॥ जय० ॥ यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तवयोनिर्येन त्वमुत्पन्ना, याहि शठेन सार्द्ध-योगिनी भव, किं तव लग्नो यक्षः ?, त्वां याकिनी भक्षयति ?, तवजननी मृता तवजनको मृतः रे? जोषं कुरु किं जन्मान्तरे यक्षणी भविष्यसि?, मकारं यथा प्रियतां मरिष्यति तव गुरुणी मृतस्तव गुरु मुखं मा दर्शय दुष्टं मुखं कृष्णं कुरु तव मुखे विष्ठा पतिष्यति चिन्तां मा कुरु मुखं लात्वा गच्छ इतः।
इत्यादिवचनपूर्वकं श्रमणी' श्रीजिनप्रवचनदमनी ‘जल्पति' बाढस्वरेणकुत्सितंवक्तीत्यर्थः 'गृहस्थप्रत्यक्षं' गृहस्थानां श्रवणंयथा स्यात्तथा प्रत्यक्षं-साक्षात् भवपरम्पराकोटिसङ्कुले संसारे' चतुर्गत्यात्मके 'आर्या' साध्याभासवेषा वेषविडम्बिका 'प्रक्षिपति' पातयतीत्यर्थः ‘आत्मानं' स्वयमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org