SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मू० ७४ २३५ - दृष्टेति गम्यते ‘जायते’ उत्पद्यते चित्ते - मनसि चमत्कारः - आश्चर्यं चित्तचमत्कारः, केषां ? देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः । तत्र प्रायश्चित्तं दशधा - आहारादिग्रहणोच्चारस्वाध्यायभूमिचैत्ययतिवन्दनार्थं पीठफलकप्रत्यर्पणार्थं कुलगणसङ्घादिकार्यार्थं च हस्तशताद्बहिर्निर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः १ । समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभङ्गे इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्च्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः २ । सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषु उत्तरगुणातीचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्रं प्रायश्चिततं यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः ३ । पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते करणगृहीते उद्धरिते वा भक्तादिके विवेकः प्रायश्चित्तं त्यजन् शुद्ध इत्यर्थः ४, नौनदीसन्तारसावद्यस्वप्नादिषु कायोत्सर्ग प्रायश्चित्तं ५ । पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं ६ । यः षण्मासक्षमकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियत इति तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादि तथाविधतपः श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य छेदः प्रायश्चित्तं, अहोरात्रपञ्चदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः ७ । आकुट्टया पञ्चेन्द्रियवधे दर्पेण मैथुने उत्सन्नविहरे इत्यादी मूलं प्रायश्चित्तं, पुनर्द्रतारोपणमिति भावः, भिक्षोर्नवमदशमप्रायश्चित्तापत्तावपि मूलमेव दीयते ८ । स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्यार्हं प्रायश्चित्तं, यावदुत्कृष्टं तपो नाचीर्णं तावद् व्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतप्रायश्चित्तमुपाध्यायस्यैव दीयते ९ तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपाग्रमहिषीप्रतिसेवके स्वपरपक्षकषायविषयप्रदुष्टे स्त्यानार्द्धिनिद्रावति पाराञ्चिकप्रायश्चित्तं स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहि स्थाप्यते द्वादश वर्षाणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे शुद्धत्वात्, इदं च प्रायश्चित्तमाचास्यैव दीयते १० । तत्रानवस्थाप्यस्तपःपाराञ्चितकश्च प्रथमसंहननचतुर्दशपूर्वधरे गतौ, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थं तावद्भविष्यन्तीति ॥ अथ जीवरक्षादिद्वारेण गच्छस्वरूपमाह मू. (७५) पुढविदगअगणिमारुअ वाउवणस्सइतसाण विविहाणं । मरतेऽविन पीडा कीरइ मणसा तयं गच्छं ।। वृ. पुढ० ।। पृथ्वीदकाग्निमारुतानां वाशब्द एषां भेदसूचकः तुशब्दस्तु यतनासूचकः, वनस्पतित्रसाणां विविधानां मनसाऽपि मरणान्तेऽपि यत्राबाधा न क्रियते स गच्छः । तत्र पृथ्वीकायस्त्रिधा - सचित्ताचित्तमिश्रभेदात्, सचित्तो द्विधा - निश्चयव्यवहाराभ्यां, रत्नशर्कराप्रभृतीनां महापर्वतानां हिमवदादीनां च बहुमध्ये यः स निश्चयतः सचित्तः १ शेषोऽरण्यादौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy