SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गच्छाचार-प्रकिर्णकसूत्रम् ७२ नन्नत्य गाढेसुवा रोगायंकेसु" नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्योऽन्यस्य-परस्परस्य मोकं-मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह-गाढा-अहिविषविशूचिकादयः अगाढाश्च-ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः इति, एवंविधाः साधवो यत्र भवन्ति स गच्छः॥ मू. (७३) मउए निहुअसहावे हासद्दवविवज्जिए विगहमुक्के । असमंजसमकरते गोयरभूमट्ट विहरति ।। वृ. मउए०॥द्रव्यभावभेदान्मूदुका द्विधा, तत्र द्रव्यमृदुका अर्कतूलादिकाः भावमृदुकाः सिद्धान्तयथोक्तकथकाः जिनोक्तेनिशङ्कादिस्वभावावा 'निभृतस्वभावाः' अपवादापवादागमश्रवणेगुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भीरस्वभावाःगुर्वादिनाताडिताअपिगुरुकुलावासे निश्चलचित्तावा हास्यद्रवविवर्जिताः' तत्रहास्तं-सामान्येन हसनं द्रवः-परोपहासः, यद्वा हास्यंदन्तोद्घाटनादिना हसनं द्रवः-कर्करादिना क्रीडादिकरणं 'विगहमुक्के' विकथाविमुक्ताः 'असमञ्जसं गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिवचरणंगोचरस्तस्यभूमिर्गोचरभूमिस्तदर्थं विहरन्ति, अयं भावः-ज्ञानादिप्रयोजने भ्रमन्तिन निष्प्रयोजनमिति।यद्वा गोचरभूमि-अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थं विचरन्ति, उपलक्षणादन्येऽपि ग्राह्याः।। सचाभिग्रहोद्रव्यक्षेत्रकालभावभेदाच्चतुओं, तत्रलेपकृतंजगारिप्रमुखमलेपकृतंवावल्लादिकं द्रव्यमहं ग्रहीष्यामि, अमुकेन वा दर्वीकुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः १।। क्षेत्राभिग्रहेऽष्टौ गोचरभूमयो, यथा यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षार्थं परिभ्रमन् ताव याति यावत्पङ्क्तौ चरमगृहं, ततो भिक्षामगृह्णन्नेवापर्याप्तेऽपिप्राञ्जलयैवगत्या प्रतिनिवर्त्तते सा ऋज्वी १, यत्र पुनरेकस्यांगृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका २, यस्यांतुवामगृहाद्दक्षिणगृहेदक्षिणगृहाच्चवामगृहे भिक्षांपर्यटति सागोमूत्रिका ३, यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका ४।। यस्यां तु साधुः क्षेत्रं पेटावच्चतुरन विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासशसंस्थानयोर्दिगद्वयसंबद्धयोर्गृहश्रेण्योरत्रपर्यटति, ६तथा शम्बूकः-शङ्कस्तद्वत्यावीथि साशम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात् शङ्खावर्त्तया परिभ्रमणभझ्या भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८। तथा श्रीवीरस्योदुमबरविषयोऽन्योऽपि स्वपरग्रामे गृहसझ्याविषयः क्षेत्राभिग्रहः २, अमुकवेलायां मया भिक्षार्थं गन्तव्यमिति कालाभिग्रहः ३। तथा गायन् रुदन् अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कृतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रहः ४ इति॥ मू. (७४) मुणिणं नानाभिग्गह दुक्करपच्छित्तमनुचरंताणं । ___ जायइ चित्तचमकं देविंदाणंपितं गच्छं। मुणिणं० ॥ 'मुनीन्’ साधून् ‘नानाऽभिग्रह' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy