________________
२३२
गच्छाचार-प्रकिर्णकसूत्रम् ७१ वृ. वाया०॥ वाङ्मात्रेणापि, आस्तां क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छः, 'वाङ्मात्रेण' वचनव्यापारेण रे कुशील ! रे अपण्डित! रे जिनाज्ञाभञ्जक! रे सद्गच्छमर्यादावल्लीकन्दकुद्दाल! इत्यादिना, अपिशब्दान्मनसा यथाऽयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन कायेन-करचालनशिरःकम्पनादिना यत्र गणे, कस्य ?
_'भ्रष्टचारिस्य' शिथिलसंयमस्य 'निग्रहः' दण्डः विधिना' सूत्रोक्तप्रकारेण, कथंभूतस्य बहुलब्धियुक्तस्यापि' आमज॑षधिविण्मूत्रौषधिश्लेष्मौषध्यादिसहितस्यापि 'क्रियते' विधीयते 'गुरुणा' स्वधर्माचार्येण 'तयंति स गच्छः । किञ्चिल्लब्धिस्वरूपं यथा॥१॥ “आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव ।
सव्वोसहि ५ संभिन्नसोय ६ ओही ७ रिउ ८ विउलमइलद्धी ।। ॥२॥चारण १० आसीविस ११ केवली य १२ गणधारिणो १३ य पुव्वधरा १४
अरहंत १५ चक्कवट्टी १६ बलदेवा १७ वासुदेवाय १८॥ ॥३॥ खीरमहुसप्पिआसव १९ कुट्ठयबुद्धी २० पयानुसारी य २१ ।
तह बीयबुद्धि २२ तेअग २३ आहारग २४ सीयलेसा य २५॥ ॥४॥ वेउव्विदेहलद्धी २६ अक्खीणमहानसी २७ पुलाया य २८।
परिणामतवविसेसेण एमाई हुंति लद्धीओ॥ ॥५॥ भवसिद्धियपुरिसाणं एयाओ २८ हुंति भणिय लद्धीओ।
___भवसिद्धियमहिलाणवि जत्तिय जायंतितं वुच्छं ।। ॥६॥ अरिहंत १ चक्कि २ केसव ३ बल ४ संभिन्ने य ५ चारणे ६ पव्वा ७।
गणहर ८ पुलाय ९ आहारगंच १० नहु भवियमहिलाणं ।। ॥७॥ · अभवियपुरिसाणं पुन दस पुव्विल्ला उ केवलित्तं च ११ ।
उज्जुमई १२ विपुलमई १३ तेरस एयाउ न हु हुंति ।। ॥८॥ अभवियमहिलाणं पुण एयाओ न हुंभणियलद्धीओ १३ ।
महुखीरासवलद्धीवि नेव सेसा उ अविरुद्धा ।। इति॥ मू. (७२) जत्थ य सन्निहिउक्खडआहडमाईण नामगहणेऽवि।
पूईकम्मा भीआ आउत्ता कप्पतिप्पेसु॥ वृ. जत्थ य०॥यत्र च गणे 'सन्निहित्ति आहारमनाहारं च तिलतुषमात्रमपि पानकं वा बिन्दुमात्रमपि तेषां निशास्थापनं संनिधिरुच्यते, संनिधिपरिभोगे रक्षणे च चतुर्गुरु प्रायश्चित्तं आत्मसंयमविराधना अनवस्थाऽऽज्ञाभङ्गादिदोषाः गृहस्थतुल्यश्चेति, उक्तंच दशवैकालिके॥१॥ “लोभस्सेसमणुप्फासो, मन्ने अन्नयरामवि।
__ जे सिया सन्निहीकामे, गिही पव्वइए न से ॥” इति। अत्रद्वितीयपदं निशीथचूर्णितोज्ञेयमिति। "उक्खडत्ति औद्देशिकं, तच्चौधविभागभेदाद्दिधा, तत्र स्वार्थाग्निज्वालनस्थाल्यारोपणादिके व्यापारे यः कश्चिदागमिष्यति तस्य दानार्थं यक्रियते तदोधौद्देशिकं, विभागौद्देशिकंतु-उद्दिष्टकृतकर्मेतिमूलभेदरयरूपंउद्देशसमुद्देशादेशसमादेशोत्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org