________________
२३१
मू०६७
वृ.सव्व०॥ सर्वत्र' दिवानिशागृहाङ्गणमार्गादिषु स्त्रीवर्गे' अनाथरण्डामुण्ड्यादिरामावृन्दे 'अप्रमत्तः रामाभिः सह निद्राविकथादिप्रमादरहितः सन् ‘सदा' सर्वकालं ‘अविश्वस्थः (स्तः) विश्वासरहितोरामासु एवंविधो निस्तरति' निरतीचारंपालयतीत्यर्थः, किं? -'ब्रह्मचर्य' मैथुनत्यागरूपं, 'तद्विपरीतः' उक्तविपर्यस्तो "न निस्तरति न ब्रह्मचर्यं पालयतीत्यर्थः॥ मू. (६८) सव्वत्थेसु विमुत्तो साहू सव्वत्थ होइ अप्पवसो।
। सो होइ अणप्पवसो अजाणं अनुचरंतो उ॥
सव्वत्थे०॥ सर्वार्थेषु सर्वहेयपदार्थेषु 'विमुक्तः' ममतादिरहितः 'साधुः' मोक्षसाधकः 'सर्वत्र क्षेत्रकालद्रव्यभावादिषु भवति 'आत्मवशः' नकुत्रापि परवशोभवतीत्यर्थः, सः' मुनिर्भवति 'अनात्मवशः' परवशः य आर्याणां ‘अनुचरत्वं कुर्वन्' सेवकत्वं निष्पादयन् तिष्ठतीति । अत्र दृष्टान्तमाहमू. (६९) खेलपडिअमप्पाणं न तरइ जह मच्छिआ विमोएउं।
अजानुचरो साहू नतरइ अप्पं विमोएउं॥ वृ.खेल०॥श्लेष्मपतितमात्मानं 'नतरति' न शक्नोतियथा मक्षिका ‘मोचयितुं' पृथक् कर्तुस्थानान्तरे गन्तुमित्यर्थः एवं आर्यानुचरः' साध्वीपाशबद्धपादः साधुः 'नतरति'नशक्नोति 'आत्मानं विमोचयितुं' स्वेच्छया ग्रामादिषु विहर्तुमित्यर्थः॥ मू. (७०) साहुस्स नत्थि लोए अजासरिसा हुबंधणे उवमा।
धम्मेण सह ठवंतो नयसरिसो जाण असिलेसो॥ वृ. साहु० ॥ “साधोः' मुनेः 'नास्ति' न विद्यते, क? -'लोके' प्राकृतजने 'आर्यासशी' साध्वीतुल्या 'हुः निश्चितं 'बन्धने पाशलक्षणे 'उपमा तत्सशंवस्त्वित्यर्थः, अपवादापवादमाह'जाण'त्तियाःसाध्वीः संयमभ्रष्टाधर्मेणसह स्थापयन्साधुः ‘नयसदृशः' आगमवेदीत्यर्थः अश्लेषः' अबन्धको ज्ञातव्य इति । 'क्वचिद्वितीयादेः' इति प्राकृतसूत्रण जाणेत्यत्र द्वितीयार्थे षष्ठी।
अथवा धर्मात् श्रुतचारित्रात्काञ्चिद्दष्टां ज्ञात्वा दृष्ट्वा तत्पाद्वेगच्छोपदेशपरिचयादिकं कृत्वा धर्मेण सह' श्रुतचारित्रलक्षणेनसह स्थापयन् उपलक्षणत्वात्अतीवगहनवृक्षदुर्गेव्याघ्रसिंहादिश्वापददुर्गे म्लेच्छादिभयमनुष्यदुर्गे गर्तापाषाणादिविषमस्थाने विषमपर्वते वा प्रस्खलमानां सर्वगात्रैः पतन्ती वा बाह्वादावङ्गे गृह्णन् सर्वाङ्गीणं वा धारयन् एवमुदकपङ्कादौ अपकसन्ती अपोह्यमानां वा नष्टचित्तां दीप्तचित्तां लाभादिमदेन परवशी भूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणांसप्रायश्चित्तप्रायश्चित्तभयेन विषण्णांप्रायश्चित्तं वहन्तीं तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थानकोक्तसभयादिकारणैरेकत्र तिष्ठन्नपि ‘नयसरिसो'त्ति नयसशो भवति साधुः, कोऽर्थः । तथा 'जाण असिलेसो'त्ति अश्लेषः' अबन्धकः 'जाण'त्ति ज्ञातव्यः,आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः । अस्या गाथाया अन्याऽपि यथागमं व्याख्या कार्येति ।
पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाहमू. (७१) वायामित्तेणवि जत्थ भट्टचरित्तस्स निग्गहं विहिणा।
बहुलद्धिजुअस्सावी कीरइ गुरुणा तयं गच्छं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org