________________
मू०२४
२१९
६ पलाल ७ बूरक ८ काष्ठा ९ ङ्गार १० क्षेत्र ११ गृह १२ दूरदेशव्यवसायि १३ बलीवर्द १४ घृत १५ चर्म १६भोजन १७सेइमाणाक १८ रूपाष्टादशकररहितंराज्यं-सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं ‘पयहिय'त्ति त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हुः' निश्चितं 'ममत्वं' ममैतदिति मन्यते “सः' पूर्वोक्तः केवलं 'लिङ्गधारी' वेषमात्रधारी संयमः-पञ्चाश्रवविरमण ५ पञ्चेन्द्रियनग्रह १० कषायचतुष्टयजय १४ दण्डत्रयविरति १७ लक्षणस्तस्य योगो-व्यापारस्तेन निस्सारो-गतसार इति॥
पुनस्र्थात्रयेणोत्तमाचार्यस्वरूपमाहमू. (२५) विहिणा जो उ चोएइ सुत्तं जत्थं च गाहई।
सो धन्नो सो अपुन्नो य, सबंधू मुक्खदायगो । वृ.विहि०॥ विधिना' आगमोक्तन्यायेन यःआचार्यतुशब्दादुपाध्यायादिकः 'चोएइ'त्ति नोदयति-प्रेरयति नोदनस्मारणवारणप्रतिनोदनादिभि शिष्याणामिति, 'सूत्र' आचाराङ्गादिकं उत्सर्गा १ पवादो २ त्सर्गापादिका ३ पवादौत्सर्गिको ४ त्सर्गोत्सर्गिका ५ पवादापवदिकात्मकं ६, तथा सूत्रपाठनन्तरं तस्यैव नियुक्तिभाष्यचूर्णिसंग्रहणीवृत्यादिरूपंपरम्परत्मकमर्थं 'ग्राहयति' शिक्षयति चकारात् नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतान् सप्त नयान् ज्ञापयति स आचार्य ‘धन्यः' सूत्रधनदायकत्वात् स च 'पुण्यः' अर्थदानपुण्यकृत्वात् चकाराजिनाज्ञाप्रतिपालकः स बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात् मुक्ख० ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे दृढत्वं दृढत्वेन कर्माभावस्ततो मोक्षदायक इति ॥ मू. (२६) स एव भव्वसत्ताणं, चक्खूभूएवियाहिए।
दंसेइ जो जिणुद्दिटं, अणुट्ठाणं जहट्ठियं॥ वृ.सए०॥ स एव' अनन्तरोक्त एव भव्यसत्वानां' मोक्षगमनयोग्यजन्तूनां चक्षुर्भूतः' नेत्रतुल्यः 'व्याहतः' कथितः जिनादिभि 'दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति ‘यः' आचार्यशिरोमणि 'जिनोद्दिष्टं जिनोक्तं 'अनुष्ठानं' मोक्षपथप्रापकं रत्नत्रयं 'यथास्थितं' याशं स्यात्ताशम् ॥ मू. (२७) तित्थयरसमो सूरी सम्मं जो जिनमयं पयासेइ ।
आणं अइक्कमंतो सो काउरिसो न सप्पुरिसो॥ वृ. तिथ०॥ तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः-तुल्यः, देशसमत्वमिदं विज्ञेयं, अन्यथा क्व तीर्थकरत्वंकाचार्यत्वमिति, कः ?सूरिः-अनेकातिशयसंयुक्तो गौतमादिसद्दश आचार्यः 'सम्यग् इति सर्वशक्त्या यो 'जिनमतं' जगप्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकंसप्तनयात्मकंकुमततरुगजायमानं 'प्रकाशयति' भव्यान् दर्शयतीत्यर्थः, आज्ञां' पारगतोक्तमर्यादा ‘अतिक्रमन्' उल्लङ्घयन् पुनः सः 'कापुरुषः' पुरुषाधमः, 'न सत्पुरुषः' न प्रधानपुरुषो, जमालिवदिति॥
अथ कीशा आचार्या आज्ञातिक्रामका भवन्ति?, आहमू. (२८) भट्ठायारो सूरी १ भट्ठायाराणुविक्खओ सूरी २ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org