SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१८ गच्छाचार-प्रकिर्णकसूत्रम् २२ आचार्य 'रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कं? -'गच्छं' गणं, किंभूतं ?-सबालाश्च ते वृद्धाश्च सबालवृद्धास्तैराकुलः-सङ्कीर्णस्तं सबालवृद्धाकुलं, किमिव?, चक्षुरिव, यथा चक्षुर्गर्तादौ पतन्तं जन्तुगणं धत्ते तथाऽयमिति ॥अथाधमाचार्यस्वरूपं गाथाद्वयेनाहमू. (२३) सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण निस्सारो॥ वृ.सीया० ।। सीयावेइ'त्ति शिथिलत्वं प्रापयति मुनीनामिति शेषः, कंप्रति? -विहारं प्रति, अथवा 'सीयावेइ'त्ति स्वयमलसो भवति, क्व ?-विहारे, अत्र “सप्तम्या द्वितीये"ति प्राकृतसूत्रेण सप्तम्यर्थे द्वितीयेति, अत्र विहारस्वरूपं बृहत्कल्पादिभ्यो यथा-साधूनां ग्रामनगरराजधान्यादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतिरहितेषु एकं मासं यावद्वस्तुं कल्पते कारणं विना हेमन्तग्रीष्मयोः, कारणे तु पाटकपरावर्तनं क्रियते, तदभावे गृहपरावर्तनं, तदभावे वसतावेवस्थानपरावर्तन, नत्वेकस्थानवसनमिति, ग्रामादिषुवृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गुहपद्धतियुक्तेषु मासद्वयं यावद्वस्तुं कल्पते हेमन्तग्रीष्मयोः, मासमेकमन्तः बहिरेकं च, यत्रैव वसति तत्रैव भिक्षाचर्या भवति, एवं साध्वीनामपि, नवरं यत्र साधूनां मासकल्पस्तत्र साध्वीनां मासद्वयं यावद्वस्तुं कल्पते तथा सुखशीलस्य-साताभिलाषिणो गुणाः-पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैर्य 'अबुद्धीओ'त्ति तत्वज्ञानरहितः, यद्वा 'सुहसीलगुणेहिं'ति, इत्यत्र सप्तम्यर्थे तृतीया, सुखं चउपशमसन्तोषलक्षणंशीलंच-मूलगुणलक्षणं गुणाश्च-उत्तरगुणरूपास्तेषुयः, न विद्यते बुद्धिःअन्तःकरणभावरूपा यस्यासौ अबुद्धिः अबुद्धिरेवाबुद्धिकः भावशून्य इत्यर्थः-, यद्वा सुखेमोक्षलक्षणे शीलं-स्वभावो येषां ते सुखशीलाः-जिनास्तेषां गुणाः-केवलज्ञानकेवलदर्शनादिरूपास्तेषु यः ‘अबुद्धीओ'त्ति अत्र नञ् कुत्सार्थे कुत्सिता-विरुद्धप्ररूपणरूपा बुद्धिःमतिर्यस्यासौ अबुद्धिकः, 'स' पूर्वोक्तः 'नवरं' केवलं लिङ्ग-साधुनेपथ्यरूपं धरतीत्येवंशीलो लिङ्गधारी, द्रव्यलिङ्गधारत्यर्थः। तथा संयमः-पृथिव्यादि सप्तदशलक्षणः, यथा पृथिवी १ भू २ वह्नि ३ वायु४ तरु ५ द्वि ६त्रि७चतुः ८ पञ्चेन्द्रियाणां९मनोवाक्कायैःकरणकारणानुमतिभिसंरम्भसमारम्भारम्भवर्जनमिति जीवसंयमः, पुस्तकादीन् प्रतिलेखनापूर्वकंधारयतोऽजीवसंयमः १०, प्रेक्ष्य चक्षुषाशयनासनादीनि कुर्वीतेति प्रेक्षासंयमः ११, पार्श्वस्थादीनामुपेक्षणमुपेक्षासंयमः १२, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः १३, अनुपकारकं वस्तु विधिना परिष्ठापयतः परिष्ठापनासंयमः १४, द्रोहेादिभ्यो निवृत्तिधर्मध्यानादिषु प्रवृत्तिर्मनःसंयमः १५, एवं वाक्काययोरपि १६।१७, तस्य योगः-प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति, यद्वा 'संजम०' निर्गतंसार-स्वर्गापवर्गफलंयस्यस निस्सारः, केन?-संयमश्चयोगश्च-योगोद्वहनं संयमयोगं तेन, बाध्यसंयमयोगोद्वहनहेतुत्वादिति ॥ . मू. (२४) कुलगामनगररजं पयहिय जो तेसु कुणइ हु ममत्तं । __ सो नवरि लिंगधारी संजमजोएण निस्सारो॥ वृ. कु०॥ कुलं-गृहं ग्राम-सकरं नकरं-गो १ महिषी २ उष्ट्र ३ च्छाग४च्छगली ५ तृण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy