________________
१६८
चत्वारिंशत्सहस्राणि च ४०७ ४८४०००० ॥ मू. (९२)
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ९१
वाससयाउस्सेए उस्सासा इत्तिया मुणेयव्वा ।
पिच्छह आउस्स खयं अहोनिसं झिज्झमाणस्स ॥
वृ. वासस० वर्षशतायुषः एते पूर्वोक्ता उच्छ्वासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः यूयं पश्यत - ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य - समये २ आवीचीमरणेन त्रुटयमानस्येति ॥
पू. (९३)
राइदिएण तीसं तु मुहुत्ता नव सयाइं मासेणं । हायंति पमत्ताणं न य णं अबुहा वियाणंति ॥
बृ. 'राइ०' अहोरात्रेण त्रिंशन्मुहूर्त्ता भवन्ति, मासेन नव शतानि मुहूर्त्तानि, तानि प्रमत्तानांमद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ मू. (९४) तिन्नि सहस्से सगले छच्च सए उडुवरो हरइ आउं ।
हेमंते गिम्हासु य वासासु य होइ नायव्वं ॥
वृ. 'तिन्नि०' त्रीणि सहस्राणि षट्शताधिकानि सकलानि - सम्पूर्णानि मूहूर्तानि हेमन्तेशीतकाले भवन्ति, एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवर:- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्षत्वेन ग्रीष्मशब्दः स्त्रलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आबन्तत्वेन स्त्रलिङ्गो बहुवचनान्तश्च ॥ मू. (९५)
वाससयं परमाऊ इत्तो पन्नास हरइ निद्दाए । इत्तो वीसइ हावइ बालत्ते वुड्ढभावे य ।
वृ. 'वासस०' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो- वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति- गमयति जीवः, इतः - शेषपञ्चाशदवर्षतः विंशतिर्वर्षाणि हीयन्ते - यान्ति प्रमादादिना, कथं ?, बालत्वे दशकं वृद्धत्वे च दशकं चेति । मू. (९६) सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य ।
नानाविहा य रोगा हवंति तीसाइ पच्छद्धे ।।
वृ. 'सीउ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्धं त्रिंशत्पश्चार्धं पञ्चदशवर्षरूपं तस्मिन् को भावः ? - शेषत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभिर्मुधा यान्तीति ॥
मू. (९७)
Jain Education International
एवं पंचासीई नट्ठा पन्नरसमेव जीवंति ।
जे हुंति वाससइया न य सुलहा वाससयजीवा ॥
वृ. 'एवं०' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्मं विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ? – निद्रया पञ्चाशद् वर्षाणि ५० बालत्वे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः - वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात्, न च वर्षशतजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च- 'आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे
For Private & Personal Use Only
www.jainelibrary.org