________________
१४
निरयावलिका-उपाङ्गसूत्रम्-१/७ नमस्यामि-प्रणमामि, सत्कारयामि-आदरंकरोमि वस्त्राद्यर्चनंवा, सन्मानयामिउचितप्रतिपत्येति कस्याणं-कल्याणहेतुं, मङ्गलं दुरितोपशमनहेतुं, देवं चैत्यमिव चैत्यं, पर्युपासयामि-सेवे, एतत्, नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यानवत्, सुखाय-शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वाय-भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा-इति हेतोः, संपेक्षते पर्यालोचयति, संप्रेक्ष्य चैवमवादीत्-शीघ्रमेव 'भो देवाणुप्पिया' ! धर्माय नियुक्तं धार्मिकं, यानप्रवरं,___ -'चाउग्घंटेआसरहं तिचतोघण्टा; पृष्ठतोऽग्रतः पार्श्वतश्चलम्बमानायस्य सचतुर्घण्टः, अश्वयुक्तोरथोऽश्वरथस्तमश्वरथं, युक्तमेवाश्वादिभिः, उपस्थापयत-प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत । 'हाय' त्तिकृतमज्जना, स्नानानन्तरं ‘कयबलिकम्म'त्तिस्वगृहे देवतानां कृतबलिकर्मा, 'कयकोउयमंगलपायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यंकर्तव्यत्वात् प्रायश्चितानि यया सा तथा।
तत्र कौतुकानि-मषीपुण्ड्रादीनि, मङ्गलादीनि सिद्धार्थदध्यक्षतदूर्वाङ्मुरादीनि, 'सुद्धप्पावेस्साइंवत्थाइंपरिहिया' 'अप्पमहग्धाभरणालंकियसरीरा' (इति) सुगमम्, बहूहिंखुजाहिंजावे' त्यादि, तत्र कुब्जिकाभिः-वक्रजङ्घाभिः, चिलातीभिः-अनार्यदेशोत्पन्नाभिः, वामनाभिः-इस्वशरीराभिः, वटभाभिः-मडहकोष्ठाभिः, बर्बरीभिः-बर्बरदेशसंभवाभिः, बकुशिकाभिः यौनकाभिः पण्हकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडीभिः सिंहलोभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शबरीभिः पारसीभिः नानादेशाभिःबहविधानार्यदेशोत्पन्नाभिरित्यर्थः, विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, "इंगियचिंतियपतअथियवियाणियाहिं तत्र इङ्गितेन-नयनादिचेष्टाविशेषण चिन्तितंच-परेण हदिस्थापितंप्रार्थितंच-अभिलषितंच विजानन्तियास्तास्तथाताभिः.स्वस्वदेशे यन्नेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तस्तथा ताभिः, निपुणनामधेयकुशला यास्तास्तथा ताभिः, अतएव विनीताभिःयुक्तेति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिप्ता या सा तथा।
"उवट्ठाणसाला' उपवेशनमण्डपः । 'दुरुहइ' आरोहति । यत्रैव श्रमणो भगवान् तत्रैवोपागता-संप्राप्ता, तदनु महावीरं त्रिःकृत्वो वन्दते-स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपास्ते । धर्मकथाश्रवणानन्तरं 'त्रिःकृत्वो' वन्दयित्वा (वन्दित्वा) एवमवादीत्-‘एवं खलु भंते' इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथपदातिरूपनिजसैन्यपरिवृतः कूणिकरादजनियुक्तश्चेटकराजेन सहरथमुशलं सङ्गामयन्सुभटैश्चेटकसत्कैर्यदस्य कृतंतदाह-‘हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे' (हतः) सैन्यस्य हतत्वात्, मथितो मानस्य मन्थनात्, प्रवरवीराः-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताश्चिहध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः । अत एव 'निरालोयाओ दिसाओ करेमाणे' त्ति निर्गतालोका दिशः कुर्वन्चेटकराजः (स्य) सपक्खं सपडिदिसिं'ति सपक्षं-समानपार्श्वसमानवामेतरपार्श्वतया, सप्रतिदिक्-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परस्य समाविव दक्षिणवामपाश्र्धी भवतः, एवं विदिशावपीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org