________________
१६४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ७१ ततः-अभिवादनानन्तरं 'न मिति वाक्यालङ्कारे तंपुरुष-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतांइत्यर्थः-हे पुत्र! त्वंजीव वर्षशतमिति, अथ यदितस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदा स जीवति नान्यथेति, तदपिच आयुः 'आई'ति अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकं-वर्षशताधिकं भवति, कस्मात् ?
यस्माद् वर्षशतं जीवन् विंशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात्, तत्र युगंचन्द्रादिवर्षपञ्चात्मकमिति १ विंशतियुगानि जीवन् पुरुषः । अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ द्वे अयनशतेजीवजीवः षड् ऋतुशतानि जीवति, तत्रर्तुमासद्वयात्मकः ३ षड् ऋतुशतानि जीवन् जन्तुर्दादश मासशतानि जीवति द्वादश मासशतानि जीवन् प्राणी चतुर्विंशतिपक्षशतानिजीवति २४०० चतुर्विंशतिपक्षशतानिजीवन्षट्त्रिंशदहोरात्रसहस्राणि जीवति सत्त्वः ३६०००, ६ षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान् दश मुहूर्तलक्षाण्यशीतिमुहूर्तसहस्राणि १०८०००० (च) जीवति७ दशलक्षमुहूर्ताण्यशीतिमुहूर्त्तसहस्राणि (च) जीवन् देहधारी चत्वार्युच्छ्वासकोटिशतानि सप्तकोटीः अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणिचजीवति देहभृत् ४०७८८४००००, ८ चत्वायुच्छ्वासकोटिशतानियावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन् सार्धद्वाविंशतिं तन्दुलवाहान् वक्ष्यमाणस्वरूपान् भुनक्ति ।
कथम्?-हेआयुष्मन्!-हेसिद्धार्थनन्दन! सार्धद्वाविंशतितन्दुलवाहान्मुनक्तिसंसारीति हेगौतम! दुर्बलिकया स्त्रियाखण्डितानांबलवत्या रामयाछटितानांसूर्यादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डानां-सम्पूर्णावयवानामस्फुटितानां-राजिरहिताना 'फलगसरियाणं ति फलकविनीतानां कर्करादिकर्षणेनैकैकबीजानां वीननार्थं पृथक् पृथकतानामित्यर्थः, एवंविधानांसार्धद्वादशपलानां तन्दुलानांप्रस्थको भवति, ‘णं' वाक्यालङ्कारे, पलमानं यथा-पञ्चभिर्गुाभिर्माषः षोडशमाषैः कर्षः अशीतिगुनाप्रमाणइत्यर्थः स यदिकनकस्य तदा सुवर्णसंज्ञःनान्यस्य रजतादेरिति, चतुर्भिः कः पलमिति विंशत्धिकशतत्रयगुजाप्रमाणमित्यर्थः ३२०, सोऽपिच प्रस्थकः मगधे भवो मागध इत्युच्यते, 'कल्लं'ति श्वःप्रातः काल इत्यर्थः, प्रस्थो भवति भोजनायेति १ 'साय'मिति सन्ध्यायां प्रस्थो भोजनायेति २ ।
__एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह-'चउसट्टि०' चतुःषष्टितन्दुलसाहनिको मागधःप्रस्थो भवत्येकः, एकःकवलः कतिभितन्दुलैः स्यादित्याह-'बिसाहस्सिएप कवलेणं तिद्विसाहनिकेणतन्दुलेन कवलो भवति, तत्रगुजाःकति भवन्ति?, यथा-एकविंशत्यधि कशतप्रमाणाः किञ्चिन्यूना एका गुजा चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्कवलरूप आहारोभवति १ स्त्रियाअष्टाविंशतिकवलरूप आहारः२ पण्डकस्य नपुंसकस्य चतुर्विंशतिका लरूप आहारः ३ ‘एवामेव'त्ति उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनय एतत्पूर्वोक्तं मानं भवति ॥ _अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमाणे एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कतितन्दुलांश्च भुनक्तीत्याहअसईउपसई इत्यादि, धान्यभृतोऽवामुखीकृतोहस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृति द्वाभ्यां प्रसृतिभ्यां सेतिका भवति २चतसृभिः सेतिकाभि कुडवः ३ चतुर्भिः कुडवैः प्रस्थः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org