SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मू० ६४ १५९ अंगुलाई वितत्थी चउवीस अंगुलाई रयणी अडयालीस अंगुलाई कुच्छी छण्णउअंगुलाई से एगे अक्खेति वा दंडेति वा धणुति वा जुएति वा मुसलेति वा नालियाति वा, एतेणं धनुष्पमाणेणं दो धनुस्सहस्साइं गाउयमिति । तथा ते प्रथमारकमनुष्याः षट्पञ्चाशदधिकद्विपृष्ठकरण्डकशताः प्रज्ञप्ताः तीर्थङ्करैरिति, तथातुवरीप्रमाणाहाराः षण्मासावशेषे आयुषि स्त्रपुरुषयुगलप्रसवाः एकोनपञ्चाशद्दिनापत्यपालका दिनत्रये आहारेच्छाः १, द्वितीयारकेतु द्विक्रोशोच्चाः १२८ पृष्ठकरण्डकाः चतुःषष्टिदिनापत्यपालकाः बदरप्रमाणाहारकाः दिनद्वये आहारेच्छवः २, तृतीये अरके क्रोशोच्चाः ६४ पृष्ठकरण्डकाः ७९ दिनापत्यपालकाः आमलकप्रमाणाहारकाः एकान्तराहारेच्छकाः ३, षट्पञ्चाशदन्तद्वीपे तु मनुष्याः अष्टधनुः शतप्रमाणशरीरोच्छ्रयाः चतुर्थाशिनः चतुःषष्टिपृष्ठरण्डकाः एकोनाशीतिदिनानि कृतापत्यरक्षाः पल्योपमासंख्येयभागायुषः, तथा सर्वेऽपि तत्परिभोगपराङमुखाः सत्यपि मणिकनकमौक्तिकादिके ममत्वाभिनिवेशरहिताः युगलक्षेत्रे विनसात एव शाल्यादीनि धान्यादीन्युपजायन्ते परं न ते मनुष्यादीनां परिभोगाय, दंशमशकयूकादयः चन्द्रसूर्योपरागादयश्च न भवन्तीति । तथा ते मनुष्याः ‘णं’ वाक्यालङ्कारे प्रकृत्या - स्वभावेन भद्रकाः परानुपतापहेतुकायवाङ्मनश्चेष्टाः प्रकृत्या स्वभावेन नतु परोपदेशतः विनीताः - विनययुक्ताः प्रकृतिविनीताः प्रकृत्या उपशान्ताः प्रकृत्युपशान्ताः प्रकृत्यैव प्रतनवः - अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु-मनोज्ञं परिणामसुकावहं यन्मार्दवं तेनसम्पन्नाः मृदुमार्दवसम्पन्नाः न कपटमार्दवोपेता इत्यर्थः, आ-समन्तात् सर्वासु क्रियासु लीना - गुप्ता आलीनाः - नोल्बणचेष्टाकारिण इत्यर्थः भद्रकाःसकलतत्क्षेत्रोचितकल्याणभाविनः विनीताः - बृहत्पुरुषविनयकरणशीलाः अल्पेच्छाःमणिकनकादिविषयप्रतिबन्धरहिताः अत एव 'असंनि०' न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा अचण्डा-न तीव्रकोपाः असिमषिकृषिवाणिज्यविवर्जिताः, तत्र अस्युपलक्षिताः सेवकाः पुरुषाः असयः मष्युपलक्षिता लेखनजीविनः मषयः कृषिरिति कृषिकर्मोपजीविनः, वाणिज्य - मिति - वणिगजनोचितवाणिज्यकलोपजीविनः एतेन भवन्ति तेषां सर्वेषां अहमिन्द्रत्वात् इति, 'विडिमान्तरेषु' कल्पद्रुमशाखान्तरेषु प्रासादाद्याकृतिषु निवसनं- आकालमावासो येषां ते विडिमान्तरनिवासिनः, ईप्सितान् - मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्ते इत्येवंशीलाः ईप्सितकामकामिनः गेहाकारेषु - गृहसद्दशेषु वृक्षेषु - कल्पद्रुमेषु कृतो - निष्पादितः निलयः -- आवासः यैस्ते गेहाकारवृक्षकृतनिलयाः, गृहाकारकल्पवृक्षसूचनेनान्येऽपि सूचिता द्रष्टव्याः । यदुक्तं प्रवचनसारोद्धारवृत्तौ यथा - मत्ताङ्गदाः १ भृताङ्गाः २ त्रुटिताङ्गाः ३ दीपाङ्गाः ४ ज्योतिरङ्गाः ५ चित्राङ्गाः ६ चित्ररसाः ७ मण्यङ्गाः ८ गेहाकाराः ९ अनग्नाः १० । तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुविनसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि स्फुटित्वा २ मद्यं मुञ्चन्तीति १, भृताङ्गाः यथेह मणिकनकरजतादिमयविचित्रभाजनानि द्दश्यन्ते तथैव विस्रसापरिणतैः स्थालक'बोलकंसकरकादिभिर्भाजनैरिव फलैरुपशोभमानाः प्रेक्ष्यन्ते २ त्रुटिताङ्गेषु सङ्गतानि सम्यग् • यथोक्तरीत्या सम्बद्धानि त्रुटितानि - आतोद्यानि बहुप्रकाराणि ततविततघनशुषिरकाहलकादीनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy