________________
अध्ययनं -१
सेणिएण चिंतियं-'न नज्जइ केण कुमारेण मारेहि ?' । तउ तालपुडगं विसं खइयं । जाव एइ ताव मओ । सुयरं अधिई जाया । ताहे मयकिच्चं काऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ । एवं कालेण विसोगो जाओ । पुनरवि सयन आसणाईए पिइसंतिए दहूण अधिई होइ । तउ रायगिहाओ निग्गंतु चंपं रायहाणिं करेइ। एवं चंपाए कूणिओ राया रज्जुं करेइ नियगमभायपमुहसयणसंजोगओ । इह निरयावलियासुयखंधे कूणिकवक्तव्यता आदावुत्क्षिप्ता तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसंपादनान्नरकगामितया 'निरयाउ'त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतन्नाम । अथ रथमुशलाख्यसङ्गामस्योत्पत्तौ किं निबन्धनम् । अत्रोच्यते- एवं किलायं सङ्ग्रामः संजातः - चम्पायां कूणिको राजा राज्यं चकार ।
तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराजं प्रेरितवती - "कर्णविषलग्नकृतोऽतोऽयमेव कुमारो राजा तत्त्वतः, न त्वं यस्येदशा विलासाः” । प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थ- स्योपरमति, तप्रेरितकूणिकराजेन तौ याचितौ । तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तः पुरपरिवारितौ गतवन्तौ । कूणिकेन च दूतप्रेषणेन तौ याचितौ । न च तेन प्रेछितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् ।
ततः कूणिकेन भणितं - 'यदि न प्रेषर्यास तदा युद्धसज्जो भव' । तेनापि भणितम् -'एष सज्जोऽस्मि' । ततः कूणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामाय याताः। तत्रैकैकस्य त्रीमि त्रीणि हस्तिनां सहाणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येकं तिस्रस्तिस्रः, कोट्यः । कूणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कूणिकस्य काला - दिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपगतः एतमर्थं वक्तुमाह- 'तए णं से काले' इत्या-दिना । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानौ मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणं, ततो युद्धं संप्रलग्नम्। चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति अमोघबाणश्च सः । तत्र च कूणिकसैन्ये गरुडव्यूहः चेटकसैन्ये (च) सागरव्यूहो विरचितः
ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितः १ । भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येक निपातितः २ । एवं तृतीयेऽह्नि महाकालः, सोऽप्येवम् ३ । चतुर्थेऽह्नि कृष्णकुमारस्तथैव ४, पञ्चमे सुकृष्णः ५, षष्ठे महाकृष्णः ६, सप्तमे वीरकृष्णः ७, अष्टमे रामकृष्णः ८, नवमे पितृसेनकृष्णः ९ दशमे पितृमहासैनकृष्णः १० चेटकेनैकैकशरेण निपातिताः । एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टभभक्तं प्रजग्राह । ततः शक्र चमरावागतौ । ततः शक्रो बभाषे - “चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि” । ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान् ।
Jain Education International
For Private & Personal Use Only
११
www.jainelibrary.org