SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मू० १ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः २८ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् सटीकं (पञ्चमं प्रकिर्णकम्) 119 11 ॥२॥ (मूलसूत्रम् + विजयविमल विरचिता वृत्तिः) ऋषभं वृषसंयुक्तं वीरं वैरनिवारकम् । गौतमं गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥ प्रणम्य स्वगुरुं भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम् । तन्दुलाख्यप्रकीर्णस्य, वैराग्यरसवारिधेः । १३१ वृ. ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्ति ? उच्यते 'नंदी १ अनुओगदाराई २ देविंदत्थओ ३ तंदुलवेयालियं ४ चंदाविज्झय ५ मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिन्नानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन् श्रीऋषभस्वामिनः, कथं ? ऋषभस्य चतुरशीतिसहस्रप्रमाणाः श्रमणा आसीरन्, तैरेकैकस्य विरचितत्वात् १, एवं संख्येयानि प्रकीर्णकसहस्राणि आसीरन्नजितादीनां मध्यमजिनानां, यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिनः ३ इति तेषां मध्ये श्रीवर्द्धमानस्वामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति मू. (9) निजरियजरामरणं वंदित्ता जिनवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥ वृ. 'निज्जरिय’० निर्जरितं - सर्वथा क्षयं नीतं जरा च-वृद्धत्वं मरणं च पञ्चत्वं जरामरणं यद्वा जरया - वृद्धभावेन जरायां- वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामरणस्तं, वन्दित्वा - कायवाङ्मनोभिः नत्वा जिना :- रागद्वेषादिजयनशीलाः सामान्यकेवलिनस्तेषु तेभ्यो वावर :- प्रधानोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समवायाङ्गोक्तं यथा'चोत्तीस बुद्धातिसेसा पं० तं० अवट्ठिए केसमंसुरोमण १ निरामया निरुवलेवा गायालट्ठी, अयंजन्मप्रत्ययः २ गोखीरपंडुरे मंससोणिए, जन्मप्रत्ययः ३ पउमुप्पलगंधिए उस्सासनिस्सासे, जन्मप्रत्ययः ४ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, जन्मप्रत्ययः ५ आगासगयं चक्कं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगासफालियमयं सपायपीढं सीहासनं - आकाशमिव - यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरओ गच्छति १० For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy