________________
अध्ययनं-१
सङ्खयेयत्वाज्जम्बूद्वीपानामन्यत्रेतिभावः । भारते वर्षे-क्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धेत्यनेन 'रिद्धस्थिमियसमिद्धे' त्यादि ६श्यं, व्याख्या तुप्राग्वत् । तत्रोत्तरपुर्वदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनम्।
'कुणिए नामं राय'त्ति कूणिकनामा श्रेणिकराजपुत्रोराजा ‘होत्थ त्तिअभवत् । तद्वर्णको "महयाहिमवंतमहंतमलयमंदरमहिंदसारेत्यादिपसंतडिंबडमरंरज्जंपसाहेमाणेविहरइ" इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजपेक्षया, तथा मलयः-पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्र:शक्रादिदेवराजः, तद्वत्सारः-प्राधानो यः स तथा । तएथा प्रशान्तानि डिम्बानि-विघ्ना डमराणि च-राजकुमारादिकृता विड्वरा यस्मिंस्तत्तथा (राज्य) प्रसाधयन्-पालयन् विहरतिआस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सोमाल जाव विहरइ' यावत्करणादेवं दृश्यम् “सुकुमालपाणिपाया अहीणपंचिंदियसरीरा" अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत् तथाविधं शरीरं यस्याः सा तथा।
___ "लक्खणवंजणगणोववेया" लक्षणानि स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । “माणुम्माणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी' तत्र मानं-जलद्रोमप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निःसरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम्-अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यर्धभारं तुलयति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानिशिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरम् अङ्ग-शरीरं यस्याः सा तथा । “ससिसोमाकारकंतपियदंसणा" शशिवत्सौम्याकारं कान्तंच-कमनीयम् अत एव प्रियंद्रष्टुणादर्शनं-रूपं यस्याः सा तथा।
अतएव सुरूपास्वरूपतःसापद्मावती देवी 'कुणिएणसद्धिं उरालाइंभोगभोगाइं जमाणी विहरइ' भोगभोगान्-अतिशयवद्भोगान् । 'तत्थ णं' इत्यादि । “सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम् । अन्यच्च "कोमुइरयणियरविमलपडिपुन्नसोमवयणा" कौमुदीरजनीकरवत्कार्तिकीचन्द्र इव विमलं प्रतिपूर्णं सौम्यंच वदनं यस्याः सा तथा। कुंडलुल्लिहियगंडलेहा' कुण्डलाभभ्यामुल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्य अगारमिवअगारंतथा चारु; वेषो-नेपथ्यूयस्याः सा तथा ततः कर्मधारयः।
___ 'काली नामं देवी' श्रेणिकस्य भार्या कूणिकस्य राज्ञश्शुल्लजननी-लघुतमाताऽभवत् । सा च काली “सेणियस्स रनोइट्ठा" वल्लभा कान्ता काम्यत्वात् 'पिया' सदा प्रेमविषयत्वात्, ‘मणुन्ना' सुन्दरत्वात् 'नामधिज्जा' प्रशस्तनामध्यवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् ‘सम्मया' तत्कृतकार्यस्य संमतत्वात् 'बहुमता' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्रं वा, 'अणुमया' विप्रियकरणस्यापि पश्चात्मताऽनुमता । भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुरक्षितत्वाच्च । 'तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्दोमृन्मयस्तैलस्य भाजनविशेषः, सच भङ्गभयात्लोचनभयाच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org