SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ निरयावलिका-उपाङ्गसूत्रम्-१/४ संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्सनिरयावलियाणंदस अज्झयणा पन्नत्ता,तंजहा-काले १ सुकाले २ महाकाले ३ कण्हे ४ सुकण्हे ५ तहा महाकण्हे ६ वीरकण्हे ७ य बोद्धव्वे रामकण्हे ८ तहेव य पिउसेणकण्हे ९ नवमे दसमे महासेणकण्हे १०उ। ख. 'तएणं से' इत्यादि, तत इत्यानन्तर्येतस्माद ध्यानादनन्तरं,णं इति वाक्यालङ्कारे,स आर्यजम्बूनवामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता-प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुं सजातश्रद्धः, यद्वा जाता श्रद्धा-इच्छा वक्ष्यमाणवस्तुतत्त्वपरिज्ञानं प्रति यस्य स जातश्रद्धः । तथा जात; संशयोऽस्येति जातसंशयः, तथा जातकुतूहलः-जातौत्सुक्य इत्यर्थःविश्वस्यापिवस्तुव्यतिकरस्याङ्गेषु भणनादुपाङ्गेषुकोऽन्योऽर्थो भगवताऽभिहितोभविष्यति कथं च तमहमवभोत्स्ये? इति ‘उट्ठाए उट्टेइ' उत्थानमुत्था-ऊर्ध्वं वर्तनं तया उत्तिष्ठति, उत्थाय च 'अजजसुहम्मंथेरं तिक्खुत्तोआयाहिणपयाहिणंकरेइ तित्रिः कृत्वः-त्रीन्वारान् आदक्षिणप्रदक्षिणां-दक्षिणपाश्र्वादारभ्य परिभ्रमणतः (पुनः) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदघाति, कृत्वाचवन्दते-वाचास्तौति, नमस्यति-कायेनप्रणमति, ‘नच्चासन्ने नाइदूरे' उचिते देशे इत्यर्थः। 'सुस्सूसमाणे' श्रोतुमिच्छन् । 'नमंसमाणे' नमस्यन्-प्रणमन् । अभिमुखं 'पंजलिउडे' कृतप्राञ्जलिः।विनयेन उक्तलक्षणेन ‘पज्जुवासमाणे पर्युपासनां विदधान एवंइति वक्ष्यमाणप्रकारं 'वदासित्तिअवादीत्-भगवता उपाङ्गानांपञ्च वर्गाः प्रज्ञप्ताः, वर्गोऽध्ययनसमुदायः, तद्यथेत्यादिना पञ्चवर्गान्दर्शयति “निरयावलियाओकप्पवडिंसयाओपुष्फियाओपुप्फचूलियाओवण्हिदसाओ" त्ति प्रथमवर्गो दशाध्ययनात्मकः प्रज्ञप्तः । अध्ययनदशकमेवाह-'कालेसुकाले' इत्यादिना, मातृनामभिस्तदपत्यानांपुत्राणांनामानि, यथा काल्या अयमिति कालःकुमारः,एवं सुकाल्याः माहाकाल्याःकृष्णायाः सुकृष्णायाः महाकृष्णायाः वीरकृष्णायाः रामकृष्णायाः पितृसेनकृष्णायाः महासेनकृष्णायाःअयमित्येवंपुत्रनाम वाच्यम् । इह काल्या अपत्यमित्याद्यर्थे प्रत्ययो नोत्पाद्यः, काल्यादिशब्देष्वपत्येऽर्थे एयण प्राप्तया कालसुकालादिनामसिद्धेः, एवं चाद्यः कालः १, तदनु सुकालः २, महाकालः ३, कृष्णः ४, सुकृष्णः ५, महाकृष्णः६, वीरकृष्णः७, रामकृष्णः ८,पितृसेनकृष्णः ९, महासेनकृष्णः १० दशमः। इत्येवं दशाध्ययनानि निरयावलिकानामके प्रथमवर्गे इति ।। मू. (५) जइ णं भंते ! समणेणं जावसंपत्तेणं उवंगाणं पढमस्स० निरयाविलयाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स निरयावलियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू। तेणं काले णं ते णं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे चंपानामं नयरी होत्था, रिद्ध, पुनभद्दे चेइए, तत्थणं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीअत्तए कूणिए नाम राया होत्था, महता, तस्स णं कूणियस्सरनो पउमावई नामं देवी होत्था, सोमाल जाव विहरइ। तत्थणं चंपाए नयरीए सेणियस्स रन्नो भजा कूणियस्स रन्नो चुल्लामाउया काली नामं देवी होत्था, सोमाल जाव सुरूवा। वृ. 'एवं खलु जंबू तेणं काले ण' मित्यादि, ‘इहेव' त्ति इहैव देशतः प्रत्यक्षासन्ने न पुनर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy