SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/प्रपञ्चितः, तत्र अङ्गानि द्वादश, उपाङ्गान्यपि अङ्गैकदेशप्रपञ्चरूपाणि प्रायः प्रत्यङ्गमेकैकभावात् तावन्त्येव, तत्राङ्गानि आचाराङ्गादीनि प्रतीतानि, तेषामुपाङ्गानि क्रमेणामूनि___आचाराङ्गस्यौपपातिकं १ सूत्रकृदङ्गस्य राजप्रश्नीयं २ स्थानाङ्गस्य जीवाभिगमः ३ समवायाङ्गस्य प्रज्ञापना ४ भगवत्याः सूर्यप्रज्ञप्ति ५ ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्ति ६उपासकदशाङ्गस्य चन्द्रप्रज्ञप्ति७ अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानां पञ्चानामप्यङ्गानां निरयावलिकाश्रुतस्कन्धगतकल्पिकादिपञ्चवर्गा पञ्चोपाङ्गानि, तथाहि-अन्तकृद्दशांगस्य कल्पिका ८ अनुत्तरोपपातिकदशाङ्गस्य कल्पावतंसिका ९ प्रश्नव्याकरणस्य पुष्पिता १० विपाकश्रुतस्य पुष्पचूलिका ११ ष्टिवादस्य वृष्णिदशा १२ इति। अत्र च उपाङ्गक्रमे सामाचार्यादौ कश्चिद्भेदोऽप्यस्ति, अंगानां च मध्ये द्वे आये अङ्गे श्रीशीलांकाचार्यैर्विवृतेस्तः, शेषाणिनवाङ्गानि श्रीअभयदेवसूरिपादैर्विवृतानि सन्ति, दृष्टिवादस्तु वीरनिर्वाणात् वर्षसहने व्यवच्छिन्न इति न तद्विवरणप्रयोजनं, उपाङ्गानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिभिर्विवृतं, राजप्रश्नीयादीनि षट् श्रीमलयगिरिपादैर्विवृतानि, पञ्चोपाङ्गमयी निरयावलिका च श्रीचन्द्र प्रभ सूरिभिर्विवृता, तत्र प्रस्तुतोपाङ्गस्य वृत्ति श्रीमलयगिरिकृताऽपि संप्रति कालदोषेण व्यवच्छिन्ना, इदं च गम्भीरार्थतयाडतिगहनं तेनानुयोगरहितं मुद्रितराजकीयकमनीयकोशगृहमिव न तदर्थार्थिनां हस्तार्पितसिद्धिकं सञ्जायत इति कल्पितार्थकल्पनकल्पद्रुमायमाणयुगप्रधानसमानसम्प्रतिविजयमानगच्छनायकपरमगुरुश्रीहीरविजयसूरीश्वरनिर्देशन कोशाध्यक्षाज्ञया प्रेष्येणोवोन्मुद्रणमिव मया तदनुयोगःप्रारभ्यते । सचचतुर्धा-धर्मकथानुयोग उत्तराध्ययनादिकः गणितानुयोगः सूर्यप्रज्ञप्तयादिकः द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च चरणकरणानुयोगश्च आचाराङ्गादिकः, प्रस्तुतशास्त्रस्य क्षेत्रप्ररूपणात्मकत्वात् तस्याश्च गणितसाध्यत्वाद् गणितानुयोगेऽन्तर्भावः, नन्वेवंचरणकरणात्मकाचारादिशास्त्रणामिव नास्य मुक्त्यङ्गता, साक्षात् मोक्षमार्गभूतरत्नत्रयानुपदेशकत्वात् इति चेत्, न, साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात्, तथा चोक्तम्॥१॥ “चरणपडिवत्तिहेऊ धम्मकहा कालि दिक्खमादीया। दविए दंसणसोही सणसुद्धस्स चरणं तु॥" अत्र व्याख्या-अत्र वृत्तावतिदेशोक्तसम्मत्युक्तग्रन्थयोर्दुर्गपदव्याख्याने आपरिसमाप्ति अत्रव्याख्या इति संकेतोबोध्यः ।चरणप्रतिपत्तिहेतुर्धर्मकथानुयोगः काले-गणितानुयोगेदीक्षादीनि व्रतानि, कोऽर्थः ? –शुद्धगणितसिद्धे प्रशस्ते काले गृहीतानि प्रशस्तफलानि स्युः, कालश्च ज्योतिश्चाराधीनः, स च जम्बूद्वीपादिक्षेत्राधीनव्यवस्थस्तेनायं कालापरपर्यायो गणितानुयोग इति, द्रव्ये द्रव्यानुयोगेशुद्धेदर्शनशुद्धिर्भवति, कोऽर्थः?-धर्मास्तिकायादिद्रव्याणांद्रव्यानुयोगतः सिद्धौ सत्यां तदास्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भवतीति। इह यद्यपि श्रीमलयगिरिपादानां क्व च परकृताक्षेपपरिहारप्रभविष्णुवचनरचनाचातुर्य कवच तथाविधसम्प्रदायसाचिव्यंक्व च तत्तन्निबन्धबन्धुरतानैपुण्यंक कुशाग्रसमः प्रतिभाविभवश्च कवचमेतत्तत्पूर्वपक्षोत्तरपक्षरचनास्वकुशलत्वं, क्वच ताईकसंप्रदायराहित्यं क्वच कठोरग्रन्थग्रथनकर्मठत्वं कटरिकठिनः कुण्ठजनहठग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राकर्षकमृगेन्द Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy