SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १ / १२ तिनश्चापराः कलाः इत्येवंरूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणाकृता, शरविष्कम्भयोरभेदादिति । अथ जीवासूत्रमाह 'तस्स जीवे' त्यादि, तस्य दक्षिणाद्धभरतस्य जीवेव जीवा - ऋज्वी सर्वान्तिमप्रदेशपङिक्त, उत्तरेण–उत्तरस्यां मेरुदिशीत्यर्थः, प्राचीने पूर्वस्यां प्रतीचीने - अपरस्यां चाऽऽयता - आयामवती द्विधा लवणसमुद्रं स्पृष्टा छुप्तवती इदमेवार्थं द्योयति- 'पुरत्थिमिल्लाए' इति पूर्वया कोट्या- अग्रभागेन पौरस्त्यं लवणसमुद्रावयं स्पृष्टा पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रवयवं स्पृष्टा, नव योजनसहस्राणि अष्टचत्वारिंशानि - अष्टचत्वारिंशदधिकानि सप्त योजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्यायामेन यच्च समवायाङ्गसूत्रे - 'दाहिणभरहस्स णंजीवा पाईणपडीणायया दुहओ लवणसमुद्दं पुट्ठा नव जोअणसहस्साइं आयामेण ' मित्युक्तं तत्सूचामात्रत्वात् सूत्रस्य शेषविवक्षा न कृता, वृत्तिकारेण तु अयमवशिष्टराशिरूपो विशेषो गृहीत इति, अत्र सूत्रे ऽनुक्तापि जीवानयने करणभावना दर्श्यते, तथाहि ७० जम्बूद्वीबपव्यासाद्विवक्षित क्षेत्रेषुः शोध्यते, ततो यज्जातं तत्तेनैवेषुणा गुण्यते, ततः पुनश्चतुर्भिर्गुण्यते, इत्थं ससंस्कारो राशिर्विवक्षितक्षेत्रस्य जीवावर्ग इत्युच्यते, अस्माच्च मूले गृह्यमाणे यल्लभ्यते तज्जीवाकलामानं, तस्य चैकोनविंशत्या भागे योजनराशि शेषश्च कलाराशि, तत्र जीवादिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि तच्च न परिपूर्णयोजनसंख्याङ्कं किन्तु कलाभिः कृत्वा सातिरेकमिति विवक्षित क्षेत्रादेरिषुः सवर्णनार्थं कलीक्रियते, सच्च कलीकृतादेव जम्बूद्वीपव्यासात् सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि १ शून्य ५ रूपः कलीकरणायैकोनविंशत्या गुण्यते जातः १९ शून्यः ५, ततो दक्षिणभरतार्थेषोः साष्टत्रिंशदद्विशतयोजनमितस्य कलीकृतस्य प्रक्षिप्तोपरितनकलात्रिकस्य ४५२५ रूपस्य शोधने जातः १८९५४७५, ततश्च दक्षिणार्द्धेषुणा ४५२५ रूपेण गुण्यते जातः, ८५७७०२४३७५, अयं चतुर्गुणः ३४३०८०९७५००, एष दक्षिणभरतार्द्धस्य जीवावर्ग, एतस्य वर्गमूलानयनेन लब्धाः कलाः १८५२२४, शेषं कलांशाः १६७३२४, छेदराशिरधः ३७०४४८, लब्धकलानां १९ भागे योजन ९७४७ कलाः १२, इयं दक्षिणभरतार्द्धजीवा, एवं वैताढ्यदिजीवास्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तरैवतार्द्धजीवा यावदुत्तरार्द्धविदेहजीवापीति । अथ दक्षिणभरतार्द्धस्य धनुः पृष्ठं निरूपयति- 'तीसे धणुपट्टे' इत्यादि, तस्याः -- अनन्तरोक्ताया जीवाया दक्षिणतो- दक्षिणस्यां दिशि लवणदिशीत्यर्थ धनुःपृष्ठं अधिकारात् दक्षिणभरतार्द्धस्येति, यद्वा प्राकृतत्वाल्लिङ्गव्यत्यये तीसे इति तस्य - दक्षिणार्द्धभरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्ष्ट्यधिकानि सप्त च योजनशतानि एकं चैकोनविंशतिभागं योजनस्य किञ्चिद्विशेषाधिकं परिक्षेपेण - परिधिना प्रज्ञप्तं, अत्र करणभावना यथा- विवक्षितेषौ विवक्षितेषुगुणे पुनः षड्गुणे विवक्षितजीवावर्गयुते च यो राशि स धुनः पृष्ठवर्ग इति व्यपदिश्यते, तस्माच्च वर्गमूले लब्धाना कलानां १९ भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि - दक्षिणभरतार्द्धेषुकलाः ४५२५, अस्य वर्ग २०४७५३२५, अयं षडगुणः १२२८५३७५०, अथ दक्षिणभरतार्द्धस्य जीवावर्ग ३४३०८०९७५००, अनयोर्युति ३४४३०९५१२५०, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः १८५५५५, शेषं कलांशाः २९३२२५, छेदकराशिरधस्तात् ३७१२१०, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy