________________
५७
वक्षस्कारः - १
ट्टपडिच्छायणा उवरिं रत्तंसुयसंवुडा सुरम्मा पासाइया ४" इति ।
‘तेसि ण’मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमभरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहाः, यैरुपशोभितानि संहासनानि, सौवर्णिकाः - सुवर्णमयाः पादाः, तपनीयमयानि चक्कलानि-पादानामधः प्रदेशाः भवन्ति, मुक्तानानामणिमयानि पादशीर्षकाणिपादानामुपरितना अवयवविशेषाः, जाम्बूदमयानि गात्राणि - ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयो गत्राणां सन्धिमेलाः नानामणिमयं चेच्चं - व्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभजाव पद्मलता भक्तिचित्राणि, तथा सारसारैः - प्रधानप्रधानैर्विविधैर्ममिरलैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासः ।
‘अत्थरय०' इति आस्तरकं - आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः - प्रत्यग्रत्वगदर्भपर्यन्तरूपा लिच्चानि - कोमलानि नम्रशीलानि च केसराणि कचित् सिंहकेसरेतिपाठः तत्र सिंहकेसराणीव केसराणि मध्ये येषां मसूरकाणां तानि नवत्वक्कु शान्तलिच्चकेसराणि सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वककुशान्तलिच्चकेसरैः प्रत्यवस्तृतानि - आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो याच्छिकः प्राकृतत्वात्, तथा 'आईणग०' इति आजिनकं - चर्ममयं वस्त्र तच्च स्वभावादतिकोमलं स्यात् रूतं - कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं - प्रक्षणं तूलं - अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा, सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि तथा, परिकर्म्मितं यत् क्षोमं- दुकूलं कार्पासिकं वस्त्र तत्प्रतिच्छादनंरजस्त्राणस्योपरिद्वितीयमाच्छादनं येषां तानि तथा, रक्ताशुकेन - अतिरमणीयेन वस्त्रेण संवृतानि -आच्छादितानि रक्तांशुकसंवृतानि, अत एव सुरम्याणि, 'पासाईया' इत्यादि प्राग्वत् ।
“तेसि णं सीहासणाणं उप्पिं विजयसे पन्नत्ते, ते णं विजयसा संखकुंददगरयमयमहिअफेणपुंजसन्निकासा सव्वरयणामया अच्छा जाव पडिरूवा" तेषां सिंहासनानामुपरि प्रत्येकं २ प्रतिसिंहासनमेकैकभावात् विजयदुष्यं - वितानकरूपो वस्त्रविशेषः प्रज्ञप्तः, तानि च विजयदुष्याणि शङ्खः प्रतीतः 'कुंदे' ति कुन्दकुसुमं दकरजः- उदककणाः अमृस्य -- -क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्ज - डिण्डीरोत्करस्तत्सन्निकाशानि - तत्समप्रभाणि सर्वात्मना रत्नमयानि, शेषं प्राग्वत्, "तेसि णं विजयसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा प०, तेसु णं वइरामसु अंकुसेसु पत्तेयं २ कुंभिक्का मुत्तादामा प०, ते णं कुंभिक्का मुत्तादामा अन्नेहिं चउहिं तदद्भुच्चत्तप्पमाणमित्तेहिं अद्धकुंभिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया जाव चिट्ठति तेषां सिंहासनोपरिस्थिताना विजयदूष्याणां प्रत्येकं २ बहुमध्यदेशभागे अङ्कुशा अङ्कुशाकारा भुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु व वज्रमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं कुम्भानं मगध- देशप्रसिद्धं कुम्भपरिमामं मुक्तामयं मुक्तादाम प्रज्ञप्तं, अत्र वृत्यनुसारेण 'कुंभिक्के मुत्तादामे पन्नत्ते' इति पाठः सम्भाव्यते, कुम्भमानं तु उत्तरत्र चर्मरत्नछत्ररत्नसमुदगकसथितस्य चक्रिणो गृहपतिरत्नेन धान्यराशिसमर्पणाधिकारे वक्ष्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org