SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ५२१ सूरविमाणे अट्ठहिं सएहिं चन्द'० एवमुक्तन्यायेन यथा समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्त- योजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रविमानमशीत्यधिकैरष्टभि-र्योजनशतैः उपरितनं तारारूपं नवभिर्योजनशतैश्चारं चरति । अथज्योतिश्चक्रचारक्षेत्रापेक्षयाअबाधाप्रश्नमाह-'जोइसस्सण मित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबाधया सूर्यविमानं चारं चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपयाअबाधया सूर्यविमानंचारंचरति, अत्रच सूत्रेसमभूभागादूर्ध्वं नवत्यधिकसप्तयोजनातिक्रमेणज्योतिश्चक्रबाहल्यमूलभूतआकाशप्रदेशप्रतरः सोऽवधिर्मन्तव्यः, एवंचन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानंनवत्यायोजनैरित्येवंरूपयाअबाधयाचारंचरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थ चारं चरति । अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह- सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चारं चरति, चन्द्पविमानाविंशत्यायोजनैरुपरितनंतारापटलंचारंचरति, अत्र सूचामात्रत्वात्सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च त्रेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्यादौ दर्शिता लिख्यते॥१॥ 'शतानि सप्त गत्वोष, योजनानां भुवस्तलात्। नवतिं च स्थितास्ताराः, सर्वाधस्तानभस्तले ॥ ॥२॥ तारकापटलाद् गत्वा, योजनानि दशोपरि। सूराणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ ॥३॥ चत्वारितु ततो गत्वा, नक्षत्र पटलं स्थितम्। गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥ ॥४॥ शुक्राणां च गुरूणांच, भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोष, क्रमेण पटलं स्थितम् ।।' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह मू. (३४०) जंबुद्दीवे णं दीवे अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते सव्वब्भंतरिल्लेणं चारं चरइ?, कयरे नक्खत्ते सव्वबाहिरं चारं चरइ ?, कयेर सव्वहिडिल्लं चारं चरइ, कयरे सव्वउवरिलं चारं चरइ ?, गो० ! अभिई नक्खत्ते सव्वब्अंतरं चारं चरइ, मूलो सव्वबाहिरं चारं चरइ, भरणी सव्वहिडिल्लगं साई सब्बुवरिल्लगंचारं चरइ । चंदविमाणे णं भंते ! किंसंठिए पन्नत्ते ?, गो० ! अद्धकविठ्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयमुसिए एवं सव्वाइं नेअव्वाई, चंदविमाणे णं भंते ! केवइयं आयामविखंभेणं केवइयं बाहल्लेणं?, गो०! वृ. जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेनक्षत्राणां मध्ये कतरनक्षत्रं सर्वाभ्यन्तरं-सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः तं, अनेन द्वितायदिमण्डलचारव्युदासः, चारं चरति?, तथा कतरनक्षत्रं सर्वबाह्य-सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति-भ्रमति, तथा कतरनक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरनक्षत्रं सर्वेषां नक्षत्राणामुपरितनं चारं चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह-गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, यद्यपि सर्वाभ्यन्तरमण्डलचारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानितथापीदंशेषैकादशनक्षत्रापेक्षया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy