________________
५०४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३३१
|| 9 ||
'पुर्वेषु जाता दातारः, संग्रामे स्थायिनां जयः । अन्येषु त्वन्यसेवार्त्ता, यायिनां च सदा जयः ॥' इत्यादि ।
अथ पूर्णिमामावास्याद्वारम् - 'कति णं भंते!' इत्यादि, कति भदन्त ! पूर्णिमा:परिस्फुटषोडशकलाकचन्द्रोपेतकालविशेषरूपाः, पूर्णेन चन्द्रेण निर्वृत्ता इति व्युत्पत्तेः भावादिमः इतीमप्रत्यये रूपसिद्धिः, कति अमावास्याः - एककालावच्छेदेनैकस्मिन्नक्षत्रे चन्द्रसूर्यावस्थानाधारकालविशेषरूपाः, अमा- सह चन्द्रसूर्यौ वसतोऽस्यामिति व्युत्पत्तेः, औणादिकेऽप्रत्यये स्त्रीलिङ्गे ङीप्रत्यये, प्रज्ञप्ताः, गौ० जातिभेदमधिकृत्य द्वादश पूर्णिमाः द्वादश अमावास्याः प्रज्ञप्ताः
तद्यथा - श्रविष्ठा - धनिष्ठा तस्यां भवा श्राविष्ठी - श्रावणमास भाविनी प्रौष्ठपदा - उत्तरभाद्रपदा तस्यां भवा प्रौष्ठपदी - भाद्रपदभाविनी अश्वयुग्-अश्विनी तस्यां भवा आश्वयुजी - आश्विनेयमासभाविनी, एवं कार्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठामूली आषाढी इति, प्रश्नसूत्रे पूर्णिमामावास्ययोर्भेदेन निर्देशेऽपि उत्तरसूत्रे यदभेदेन निर्देशस्तन्नामैक्यदर्शनार्थं, तेनामावास्या अपि श्राविष्ठी प्रौष्ठपदी आश्वयुजी इत्यादिभिर्व्यपदेश्याः ननु श्राविष्ठी पूर्णिमा श्रविष्ठायोगाद्भवति, अमावास्या तु श्राविष्ठी न तथा, अस्या अश्लेषामघायोगस्य भणिष्यमाणत्वात्, उच्यते श्राविष्ठी पूर्णिमा अस्येति श्राविष्ठः - श्रावणमासः तस्येयं श्राविष्ठी श्रावणमासभाविनीत्यर्थः, एवं प्रौष्ठपद्यादिष्वमावास्यासु वाच्यं ।
"
सम्प्रति यैर्नक्षत्रैरेकैका पौर्णिमासी परिसमाप्यते तानि पिपृच्छिषुराह - श्राविष्ठीं पौर्णमासीं भदन्त ! कति नक्षत्राणि योगं योजयन्ति - योगं कुर्वन्ति ?, कति नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, भग०- गौ० त्रीणि नक्षत्राणि योगं योजयन्त, त्रीणि नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, तद्यथा - अभिजित् श्रवणो धनिष्ठा, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठीं पौर्णमासीं परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु क्वाप्यभिजितः परिसमापकादर्शनात्, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं, किञ्च - सामान्यत इदं श्राविष्ठीसमापकनक्षत्रदर्शनं ज्ञेयं, पञ्चस्वपि श्राविष्ठीषु पूर्णिमासु कां पूर्णिमां किं नक्षत्रं कियत्सु मुहूर्त्तेषु कियत्सु भागेषु कियत्सु प्रतिभागेषु च गतेषु गम्येषु च परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थं त्विदं प्रवचनप्रसिद्धं करणं भावनीयं
119 11 'नाउमिह अमावासं जइ इच्छसि कंमि होइ रिक्खंमि । अवहारं ठावेजा तत्तिअरूवेहिं संगुणिए ।'
याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्त्तमाना परिसमाप्ता भवतीति, यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यतेप्रथमतया स्थाप्यते इत्यवधार्यो - ध्रुवराशि तमवधार्यराशि पट्टिकादी स्थापयित्वा सगुणयेत्, अथ किंप्रमाणोऽसावधार्यंराशिरिति तत्प्रमाणनिरूपणार्थमाह
॥२॥ 'छावट्ठीय मुहुत्ता बिसट्टिभागा य पंच पडिपुण्णा । बासट्ठिभागसत्तट्ठिगो अ एक्को हवइ भागो ।'
षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावतप्रमाणस्योत्पत्तिरिति चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International