________________
४७६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७६ जातमेकशतसहस्रमष्टानवति शतानि, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्थायीनि तेषांतन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनं युक्तिमत् न तु सर्वेष्वपि मंडलेषुसर्वेषांभागकल्पनमितिचेत्, उच्यते, नहि नक्षत्राणां चन्द्रादिभिर्योगो नियते दिने नियते देशे नियतवेलायामेव भवतिकिन्त्वनियतदिनादौतेनतत्तन्मंडलेषु तत्तन्नक्षत्र-सम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमाविष्कम्भादौ सप्तयोजनः।
अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयन्त्राह-“एगमेगेणं भंते!' इत्यादि, एकैकेन भगवन् मुहूर्तेन सूर्य कियन्ति भागशतानि गच्छति?, गौतम ! यद्यन्मण्डलमुपसक्रम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः परिक्षेपस्याष्टादश भागशतानि त्रिंशदधिकानिगच्छति, मण्डलंशतसहस्रणाटानवत्याचशतैः छित्वा, कथमेतदवसीयत इति चेत्?, उच्यते, त्रैराशिककरणात्, तथाहि-षष्ट्या मुहूतैरेकं शतसहस्रमष्टानवति शतानि मंडलभागाना लभ्यन्ते ततः एकेन मुहूर्तेन कति भागान् लभामहे, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं, जातःसतावानेव, एकेन गुणितं तदेवभवतीतिवचनात्, ततस्तस्यायेन राशिना षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि, एतावतोभागान्मण्डलस्य सूर्य एकैकेनमुहूर्तेन गच्छति, अथ नक्षत्राणांभागात्मिका गतिप्रश्नयनाह- ‘एगमेगेण मित्यादि, प्रश्नसूत्रंसुगम, उत्तरसूत्रेतुगौतम! यद्यदात्मीयमात्मीयं प्रतिनियतं मण्डलमुपसंक्रम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेरष्टा-दशभागशतानि पञ्चत्रिंशदधिकानिगच्छति, मण्डलंशतसहस्रेणाष्टनवत्या चशतैः छित्वा, इहापि प्रथमतो मण्डलकालोनिरूपणीयस्ततस्तदनुसारेणैव मुहूर्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायां इदं त्रैराशिकं यद्यष्टादशभि शतैः पञ्चत्रिंशदधिकैः सकलयुगवर्तिभिरर्द्धमण्डलैर्द्धितीयाष्टाविंशतिनक्षत्रापेक्षया तु पूर्णमण्डलैरित्यर्थः अष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानांलभ्यन्तेततोद्वाभ्यामर्द्धम्णडलाभ्यामेकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे? __अत्रान्त्येन राशिनामध्यराशेर्गुणनंजातानिषटत्रिंशच्छतानिषष्ट्यधिकानि, तत आयेन राशिनालक्षणेन भागहरणंलब्धमेकंरात्रिन्दिवं,शेषाणितिष्ठन्त्यष्टादशशतानि पञ्चविंशत्यधिकानि, ततो मुहूर्तान- यनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि , तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकैर्भागे हृते लब्धा एकोनत्रिंशन्मुहूर्ताः, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्तना जात उपरितनो राशिस्त्रणि शतानि सप्तोत्तराणि छेदकराशिस्त्रणि शतानि सप्तषष्ट्यधिकानि , तत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहूर्ताः एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानांत्रीणिशतानि सप्तोत्तराणि इदानीमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सा सवर्णनाथ त्रिभिः शतैः षष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणिशतानि सप्तोत्तराणिप्रक्षिप्यन्तेजातान्येकविंशति सहस्राणिनव शतानिषष्ट्यधिकानि, ततस्तैराशिक-यदि मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहसैः नवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिशतानिमण्डलभागानांलभ्यन्ते ततएकेन मुहूर्तेन किं लभामहे? अत्राद्योराशिर्मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org