________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६७
साहस्सिआहिं वेउव्विआहिं बाहिराहिं परिसाहिं महयाहयनट्टगी अवाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उक्तिट्ठिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरुं अणुपरि अवंति ।
वृ. 'अंतो णं भंते' इत्यादि, अन्तर्मध्ये भदन्त ! मानुषोत्तरस्य मनुष्येभ्य उत्तरः- अग्रवर्ती एनवमधीकृत्य मनुष्यामामुत्पत्तिविपत्तिसिद्धिसम्पत्तिप्रभृतिभावात् अथवा मनुष्याणामुत्तरोविद्यादिशक्त्यभावेऽनुल्लंघनीयो मानुषोत्तरस्तस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपज्योतिष्काः ते भदन्त ! अत्रैकस्मिन्नेव प्रश्ने यद्भदन्तेति भगवत्सम्बोधनं पुनश्चक्रे तत्पृच्छकस्य भगवन्नामोच्चारेऽतिप्रीतिमत्वात् देवाः किमूर्ध्वोपपन्नाः - सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्वं ग्रैवेयकानुत्तरविमानेषूपपन्नाः - उत्पन्नाः - कल्पातीता इत्यर्थः कल्पोपपन्नाः - सौधर्मादिदेवलोकोत्पन्नाः विमानेषु - ज्योतिसम्बन्धिषु उपपन्नाः चारो - मण्डलगत्या परिभ्रमणं तमुपपन्नाआश्रितवन्तः उत चारस्य - यथोक्तस्वरूपस्य स्थितिः - अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रति- आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, अनेन गतौ रतिमात्रमुक्तं ।
४६०
सम्प्रति साक्षाद् गतिं प्रश्नयति-गतिसमापन्ना - गतियुक्ताः ?, भगवानाह - गौतम ! अन्तर्मानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहणनक्षत्रतारारूपज्योतिष्कास्ते देवा नोर्ध्वोपपन्नाः नो कल्पोपन्नाः विमानोपपन्नाः चारोपपन्नाः नो चारस्थितिकाः अत एव गतिरतिकाः गतिसमायुक्ताः, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थितैरिति प्राग्वत्, योजनसाहस्रिकैः - अनेकयोजनसहस्नप्रमाणैस्तापक्षेत्रैः, अत्रेत्थंभावे तृतीया, तेनेत्थंभूतैस्तैर्मेरुं परिवर्त्तन्त इति क्रियायोगः, कोऽर्थः उक्तस्वरूपाणि तापक्षेत्राणि कुर्वन्ति जंबूद्वीपगतं मेरु परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव, नतु नक्षत्रादीनां यथासम्भवं विशेषणानां नियोज्यत्वात्, अथैतान् साधारण्येन विशेषयन्नाह—साहम्नकाभिः, नाट्यगानवादनादिकर्मप्रवणत्वात्, न तु तृतीयपर्षद्रूपाभि, पर्षद्भिदेवसमूहरूपाभि कर्तृभूताभिः, बहुवचनं चात्र नाट्यादिगणापेक्षया, महता प्रकारेणाहतानि - भृशं ताडितानि नाटये गीते वादित्रेच - वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरूपत्रुटितानि शेषं प्राग्वत् । तथा स्वभावतो गतिरतिकैः - बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो मुच्यते यौ च बोलकलकलौ क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, कलकलश्च व्याकुलशब्दसमूहस्तद्रवेण महता २ समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं - अतीवनिर्मलं जाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराजं-पर्वतेन्द्रं 'प्रदक्षिणावर्त्तमण्डलचार' मिति प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिणः आवर्त्तो येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषण तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा मेरुं परिवर्त्तन्ते इति योज्यं, अयमर्थः - चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरुं परितः प्रदक्षिणावर्त्तमंडलचारेण भ्रमन्तीति । अथ पञ्चदशमं द्वारमाह
मू. (२६८) तेसि णं भंते! देवाणं जाहे इंदे चुए भवइ से कहमियाणिं पकरेंति ?, गो० ! ताहे चत्तारि पंच वा सामानिआ देवा तं ठाणं उवसंपज्जित्ता णं विहरंति जाव तत्थ अन्ने इंदे उव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org