SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४५१ वृ. 'जया ण 'मित्यादि, यदा भगवन् ! सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थिता-किंसंस्थाना तापक्षेत्रस्य - सूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः - व्यवस्था प्रज्ञप्ता सूर्यातपस्य किं संस्थानमितियावत्, भगवानाह - गौतम ! ऊर्ध्वमुखं अधोमुखत्वे तस्य वक्ष्यमाणाकारसम्भवात् यत् कलम्बुकापुष्पं - नालिकापुष्पं तत्संस्थानसंस्थिता प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः, इदमेव संस्थानं विशिनष्टि - अन्तः - मेरुदिशि सङ्कुचिता बहि- लवणदिशि विस्तृता, तथा अन्तःमेरुदिशि वृत्ता- अर्धवलयाकारा सर्वतो वृत्तमेरुगतान् त्रीन् द्वौ वा दशभागान् अभिव्या- प्यास्या व्यवस्थितत्वात् बहिः - लवणदिशि पृथुला-मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयति-अन्तर्मेरुदिशि अङ्कः पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखंअग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा, बहि-लवणदिशि शकटस्योद्धिः प्रतीता तस्याः मुखं यतः प्रभृति निश्रेणिकाया फलकानि बध्यन्ते तच्चातिविस्तृतं भवति तत्संस्थाना, अन्तर्बहिर्भागी प्रतीत्य यथाक्रमं सङ्कचिता विस्तृता इति भावः आदर्शान्तरे तु 'बाहिं सोत्थिअमुहसंठिआ' पाठस्तत्र स्वस्तिकः प्रतीतस्तस्य मुखं- अग्रभागस्तस्येवातिविस्तीर्णतया संस्थितं - संस्थानं वक्षस्कारः -७ यस्याः सा तथा, अथास्याः आयाममाह 'उभओपासे ण' मित्यादि, उभयपार्श्वेन-मंदरस्योभयोः पार्श्वयोः तस्यास्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे बाहे - द्वे द्वे पार्श्वे अवस्थिते - अवृद्धिहानिस्वभावे सर्वमण्डलेष्वपि नियतपरिमाणे भवतः, अयमर्थः - एका भरतस्थसूर्यकृता दक्षिणपार्श्वे द्वितीया ऐरवतस्थसूर्यकृता उत्तरपार्श्वे इति द्विप्रकारा, सा च पञ्चचत्वारिंशतं २ योजनसहस्राणि आयामेन, मध्यवर्त्तिनो मेरोरारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता योजनसहस्रैर्व्यवहिते जंबूद्वीपपर्यन्ते व्यवस्थितत्वात् एवं पूर्वापरभागयोरपि, यदा तत्र सूर्यौ तदाऽयमायामो बोध्यः, एतच्च सूत्रं जंबूद्वीपगतायाममपेक्ष्य बोध्यं, लवणसमुद्रे तु त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्र्यस्त्रिंशदधिकानि एकश्च त्रिभागो योजनस्येति एतच्च एकत्र पिण्डितं अष्टसप्ततः सहस्राणि योजनानां त्रीणि शतानि इत्यादिकं सूत्रकृदग्रे वक्ष्यति तत्र सोपपत्तिकं निगदिष्यते तेनात्र पुनरुक्तभिया नोक्तं । सम्प्रत्यनवस्थितबाहास्वरूपमाह - तस्याः - एकैकस्यातापक्षेत्रसंस्थितेः द्वे च बाहे अनवस्थिते-अनियतपरिमाणे भवतः, प्रतिमण्डलं यथायोगं हीयमानवर्द्धमानपरिमाण त्वात्, तद्यथा - सर्वाभ्यन्तरा सर्वबाह्या चैवशब्दौ प्रत्येकमनवस्थितस्वभावद्योतनार्थी, तत्र या मेरुपार्श्वे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा या तु लवणदिशि जंबूद्वीपपर्यन्तमधिकृत्य बाहा सा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरयततयेति, साम्प्रतं सर्वाभ्यन्तरापरिमाणं निर्दिशति 'तस्या - एकैसकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुगिरिसमीपे नव योजनसहस्रणि चत्वारि षडशीत्यधिकानि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्यर्थं प्रश्नमाह - 'एस ण' मित्यादि, एषः - अनन्तरोक्तप्रमाणः परिक्षेपविशेषो-मंदरपरिरयपरिक्षेपविशेषः कुतः - कस्मात् एवंप्रमाण आख्यातो नोनोऽधिको वा इति वदेत् ?, भगवानाह - गौ० यो मंदरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्वा दशभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy