________________
४४८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५९ दिवसखेत्तरस अमिवुद्धमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइत्ति, जया णं भंते ! सूरिए सव्वाबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरईतयाणं सव्वबाहिरं मंडलं पहिहाय एगेणं तेसीएणंराइंदिअसएणं तिन्निछावढे एगसट्ठिभागमुहत्तसए रयणिखेत्तस्स णिव्वुद्धत्ता दिवसखेत्तस्स अमिवद्धत्ता चारं चरइ, एसणं दोचे छम्मासे एस णंदुच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पन्नते ८ ।
वृ. 'जयाण'मित्यादि, यदा भगवन् ! सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति तदा कोमहान् आलयो-व्याप्यक्षेत्ररूपः आश्रयो यस्यासौ किंमहालयः कियानित्यर्थः दिवसो भवति, किंहालया-कियती रात्रिर्भवति?- भगवानाह-गौतम! तदा उत्तमकाष्ठां प्राप्तः-उत्तमावस्था प्राप्तः आदित्यसंवत्सरसत्कषटषष्ट्यधिकत्रिशतदिवसमध्ये यतो नापरः कश्चिदधिक इत्यर्थः अत एवोत्कर्षकः उत्कृष्ट इत्यर्थः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यत्र मंडले यावप्रमाणो दिवसस्तत्रतदपेक्षयाअ (शेषा) होरात्रप्रमाणारात्रिरितिजघन्यिका द्वादशमुहूर्ता रात्रिः, सर्वस्मिन् क्षेत्रे काले वाऽहोरात्रस्य त्रिशन्मुहूर्तसङ्ख्याकत्वस्य नैयत्यात्।
ननु यदा भरतेऽष्टादशमुहूर्तप्रमाणो दिवसस्तदा विदेहेषु जघन्या द्वादशमुहूर्तप्रमाणा रात्रिस्तर्हि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट् मुहूर्तान् यावत्केन कालेन भाव्यं?, एवं भरतेऽपिवाच्यम्, उच्यते, अत्र षड्मुहूर्तगम्यक्षेत्रेऽवशिष्टेसतितत्रसूर्यस्योदयमानत्वेन दिवसेनेति, तच्च सर्योदयास्तान्तरविचारणेन तन्मण्डलगतष्टिपथप्राप्तताविचारणेन च सूपपन्न, आह-एवं सति सूर्योदयास्तमयने अनियसे आपन्ने, भवतु नाम, न चैतदनार्षम्, यदुक्तम्॥१॥ “जह जह समए समए पुरओ संचरइ भक्खरो गयणे।
तह तह इओवि नियमा जायइ रयणीइ भावत्थो॥ ॥२॥
एवं च सइ नराणं उदयत्थणणाई होतऽनिययाई।
सइ देसकालभेए कस्सइ किंचीय दिस्सए नियमा॥ ॥३॥ सइचेव य निद्दिठ्ठो रुद्दमुहत्तो कमेण सव्वेसिं।
केसिंचीदाणिपिअविसयपमामो रवी जेसि ।।ति। यत्तुसूर्यप्रज्ञप्तिवृत्तौ सूर्यमण्डलसंस्थित्यधिकारे समचतुरनसंस्थितिवर्णनायांयुगादौ एकः सूर्यो दक्षिणस्यां एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्य पश्चिमोत्तरस्यां द्वितीयः चन्द्रः उत्तरपूर्वस्यामित्युक्तं यत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यं, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्यचरमो दिवस इति वक्तुमाह-'सेनिक्खममाणे' इत्यादि, अथ निष्कामन् सूर्यनवं संवत्सरमयमानः-प्राप्नुवन्नाददान इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसंक्रम्य चारं चरति इति, अथ दिनरात्रिवृद्धयपवृद्धयर्थमाह
'जया ण'मित्यादि, यदा भगवन् ! सूर्य अभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा भगवन् ! किंमहालयः-किंप्रमाण दिवसः किंमहालया-किंप्रमाणारात्रि?,भगवानाहगौतम! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहूर्तप्रमाणा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका रात्रिर्भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org