SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ६ ४२९ प्रश्नसूत्रं हि मेरुतो दक्षिणोत्तरदिग्भावर्त्तिपूर्वा-परसमुद्रप्रवेशरूपविशिष्टार्थविषयकं तेन न मेरुतः शुद्धपूर्वापरसमुद्रप्रवेशिन्योनयोर्निर्वच-नसूत्रेऽन्तर्भावः, यथाप्रश्नं निर्वचनदानस्य शिष्टव्यवहारात् । अथ पूर्वाभिमुखाः कियत्यो लवणोदं प्रविशन्तीत्याह 'जंबुद्दीवे दीवे' इत्यादि, जंबूद्वीपे द्वीपे कियत्यो नद्यः पूर्वाभिमुखं लवणोदं प्रविशन्तिकियत्यः पूर्वसमुद्रप्रवेशिन्य इत्यर्थः, इदं च प्रश्नसूत्रं केवलं नदीनां पूर्वदिग्गामित्वरूपप्रष्टव्यविषयकं तेन पूर्वस्मात् प्रश्नसूत्राद्विभिद्यते, उत्तरसूत्रे सप्त नदीलक्षाणि अष्टाविंशतिश्च सहस्राणि यावत् समुपसर्पन्ति, तद्यथा - पूर्वसूत्रे मेरुतो दक्षिणदिग्वर्त्तिनीनामेकं षन्नवतिसहस्रधिकं लक्षमुक्तं, तदर्द्धं पूर्वाब्धिगामीत्यागतान्यष्टानवति सहस्राणि एवमुदीच्यनदीनामप्यष्टानवति सहस्राणि शीतापरिकरनद्यश्च ५ लक्षाणि द्वात्रिंशत्सहस्राणि च सर्वपिण्डे यथोक्तं मानं । अथ पश्चिमाब्धिगामिनीनां सङ्ख्याप्रश्नार्थमाह- 'जंबुद्दीवे दीवे' इत्यादि, इदं चानन्तरसूत्रवद्वाच्यं, सङ्ख्यायोजनायाः परस्परं निर्विशेषत्वात्, सम्प्रति सर्वसरितसङ्कलनामाह'एवामेव सपव्वावरेण' मित्यादि व्यक्तं, नवरं जंबूद्वीपे पूर्वाब्धगामिनीनामपराब्धिगामिनीनांच नदीनां संयोजने चतुर्दश लक्षाणि षट्पञ्चाशतसहस्राणि भवन्ति इत्याखयातं, ननु इयं सर्वसरित्सङ्ख्या केवलपरिकरनदीनां महानदीसहितानां वा तासां ?, उच्यते, महानदीसहितानामिति सम्भाव्यते, सम्भावनाबीजं तु कच्छविजयगतसिन्धुनदीवर्णनाधिकारे प्रवेशे च 'सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवती 'ति श्रीमलयगिरिकृतबृहतक्षेत्र विचारवृत्यादिवचनमिति, श्रीरत्नशैखरसूरयस्तु स्वक्षेत्रसमासे । 119 11 " अडसयरि महनईओ बारस अंतरनईउ सेसाओ । परिअरनईओ चउदसलक्खा छप्पन्नसहसा य ॥” त्ति । महानदीनां पृथग्गणनं चक्रुरिति तत्वं तु बहुश्रुतगम्यं, नन्वत्र प्रत्यकमष्टाविंशतिसहस्रनदीपरिवारा द्वादशान्तरनद्यः सर्वनदीसङ्कलनायां कथं न गणिताः ?, उच्यते, इयं सर्वसरित्सङ्ख्या चतुर्दशलक्षादिलक्षणा श्रीरत्नशेखरसूरिभिः स्वोपज्ञक्षेत्रसमासवृत्तौ तथा प्रतिमहानदिपरिवारमीलने स्वस्वक्षेत्रविचारसूत्रे श्रीजिनभद्रगणिक्षमाश्रमणादिसूत्रकारैः श्रीमलयगिय्यादिभिर्वृत्तिकारैश्चान्तरनदी परिवारासङ्ग्रहेणैवोक्ता, श्रीहरिभद्रसूरिभिस्तु 'खण्डा जोअणे 'त्यादिगाथायाः सङ्ग्रहण्यां चतुरशीतिप्रमाणा कुरुनदीनरनन्तर्भाव्य तत्स्थाने इमा एव द्वादश नदीः चतुर्दशभिः २ नदीसहस्रैः सह निक्षिप्य यथोक्तसङ्ख्या पूरिता, तद्यथा 119 11 "चउदससहस्सगुणिआ अडतीस नईउ विजयमज्झिल्ला । सीआनईइ निवडंति सीओआएवि एमेव ।।" कैश्चित्तु य एव विजयगतयोर्गङ्गासिन्ध्वोः रक्तारक्तवत्योर्वा अष्टाविंशतिसहस्रनदीलक्षणः परिवारः स एवासन्नतयोपचारेणान्तरनदीनां परिवारतयोक्त इत्यतोऽवसीयते यदन्तरनदीपरिवारमाश्रित्य मतवैचित्र्यदर्शनादिना केनापि हेतुना प्रस्तुतसूत्रकारेणापि सर्वनदीसङ्कलनायां ता न गणिता इति, अत्रापि तत्वं बहुश्रुतगम्यमेव, यदि चान्तरनदीपरिवारनदीसङ्कलनापि क्रियते तदा जंबूद्वीपे द्विनवतिसहस्राधिकाः सप्तदश लक्षा नदीनां भवन्ति, यदुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy