SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ६/२४१ स्यात्, कियत्यः कुण्डप्रभवा वर्षधरनितम्बवर्त्तिकुण्डनिर्गताः प्रज्ञप्ताः ?, गौतम ! जंबूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधरहृदप्रभवा भरतगङ्गादयः प्रतिक्षेत्रं द्विद्विभावात्, कुण्डप्रभवाः षट्ससतिर्महानद्यः, तत्र शीताया उदीच्येषवष्टसु विजयेषु शीतोदायायाम्येष्वष्टसु विजयेषुच एकैकभावेन षोडश गङ्गाः षोडश सिन्धवश्च तथा शीताया याम्येष्वष्टसु विजयेषु शीतोदाया उदीच्येष्वष्टसु विजयेषु चैकैकभावेन षोडश रक्ता रक्तावत्यश्च, एवं चतुःषष्टि द्वादश च प्रागुक्ता अन्तर्नद्यः सर्वमीलने षट्सप्ततिरिति कुण्डप्रभवानां तु शीताशीतोदापरिवारभूतत्वेनासम्भवदपि महानदीत्वं स्वस्वविजयगतचतुर्द्दशसहस्रनदीपरिवारसम्पदुपेतत्वेन भाव्यं एवमेव सपूर्वापरेण चतुर्द्दशषट्सप्ततिरूपसङ्ख्यामीलनेन जंबूद्वीपे नवतिर्महानद्यो भवन्तीत्याख्यातमिति । ४२८ अथैतासां चतुर्द्दशमहानदीनां नदी परिवारसङ्ख्यां समुद्रप्रवेशदिशं चाह - 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं यद् भरतैरावतयोर्युगपदग्रहणं तत्समानक्षेत्रत्वात्, भरते गङ्गा पूर्वलवणसमुद्रं सिन्धुः पश्चिमलवणसमुद्रं प्रविशति, ऐरावते च रक्ता पूर्वसमुद्रं रक्तावत्यपरसमुद्रं च, तथा 'जंबुद्दीवे' त्ति निगदसिद्धं, नवरं हैमवहैरण्यवतयोः समानयुग्मिक्षेत्रत्वेन सहोक्ति, हैमवते रोहिता पूर्वं लवणं रोहितांशा पश्चिमं हिरण्यवते सुवर्णकूला पूर्वं लवणं रूप्यकूला पश्चिमं एवमेव पूर्वापरमीलनेन जंबूद्वीपे हैमवत हैरण्यवतयोः क्षेत्रयोर्द्वादशसहस्रोत्तरं नदीशतसहस्रं भवत्येवमाख्यातं, अत्र शतसहस्रशब्दसाहचर्यादग्रसङ्ख्यायां द्वादशोत्तराणीत्यत्र सहस्राणि प्रतीयन्ते, अन्यथा ( द्वादशाधिकत्वे अर्ध-) षट्पञ्चाशत्सहस्राणां चतुर्गुणने सङ्ख्याशास्त्रबाधः स्यात्, ६श्यते च शब्दसाहचर्यादर्थ- प्रतिपत्तिर्यथा रामलक्ष्मणावित्यत्र रामशब्देन दाशरथिर्लक्ष्मणशब्दसाहचर्यात् प्रतीयते न तु रेणुकासुत इति, तथा 'जंबुद्दीवे' इत्यादि, सुबोधं द्वयोर्वर्षयोः सहोक्तौ हेतुः प्राग्वदेव, हरीति - हरिसलिला पूर्वार्णवगा हरिवर्षे हरिकान्ता चापरार्णवगा रम्यके नरकान्ता पूर्वार्णवगा नारीकान्ता चापरार्णवगा सर्वसङ्घयया जंबूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोर्द्वे चतुरविंशतिसहस्राधिके सलिलाशतसहस्राभवत इति, षट्पञ्चाशत्सहस्राणां चतुर्गुणने एतावत एव लाभात्, अत्रापि सहनपरतया व्याख्यानं प्राग्वत्, तथा 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं शीता शीतोदा चेत्यत्र चकारो द्वयोस्तुल्यकक्षताद्योतनार्थी तेन समपरिवारत्वादिकं ग्राह्यं, समुद्रप्रवेशः शीतायाः पूर्वस्यां शीतोदायास्त्वपरस्यामिति, 'व्याख्यातो विशेषप्रतिपत्ति' रित्यत्र द्वादशान्तरनद्योऽधिका ग्राह्याः, महाविदेहनदीत्वाविशेषात् शेषाः कुण्डप्रभवनद्यश्च सीताशीतोदापरिवारनदीष्वन्तर्गता इति न सूत्रकृता सूत्रे पृथग् विवृताः । अथ मेरुतो दक्षिणस्यां कियत्यो नद्य इत्याह- 'जंबुद्दीवे दीवे मंदरपव्वय' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे एकं षन्नवतिसहस्राधिकं सलिलाशतसहस्रं, तथाहि - भरते गङ्गायाः सिन्धोश्च चतुर्दश २ सहस्राणि हैमवते रोहिताया रोहितांशायाश्चाष्टाविंशतिरष्टाविंशति सहस्राणि हरिवर्षे हरिसलिलाया हरिकान्तायाश्च षट्पञ्चाशत् २ सहस्राणि सर्वमीलने यथोक्तसङ्ख्या । अथ मेरुत उत्तरवर्त्तिनीनां सङ्घयां प्रश्नयितुमाह- 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे सर्वसङ्ख्या दक्षिणसूत्रवद् भावनीया, वर्षाणां नदीनां च नामसु विशेषः स्वयं बोध्यः ननु मेरुतो दक्षिणोत्तरनदीसङ्ख्यामीलने सपरिवारे उत्तरदक्षिण- प्रवहे शीताशीतोदे कथं न मीलिते ?, उच्यते, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy