________________
४२२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२४४ धानादिवेदिनः शब्दयति २ त्वा चैवमवादीत्, शेषमनुवादसूत्रत्वात् सुबोधम्, अथास्मासु स्वस्थानं प्राप्तेषु निसौंदर्याः सौंदर्याधिके भगवतिमा दुष्टा दुष्टदृष्टिं निक्षिपत्विति तदुपायार्थमाह
'तए ण'मित्यादि, ततो-वैश्रमणेनाज्ञाप्रत्यर्पणानंतरं स शक्रः ३ अभियोगान् देवान् शब्दयति शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया ! भगवतस्तीर्थकरस्य जमनगरे शृङ्गाटकयावंमहापथपथेषु महता २ शब्देन उदघोषयंतः २ एवंवदत-हंत! इतिप्राग्वत्शृण्वंतु भवंतो बहवो भवनपतिव्यंतरज्योतिष्कवैमानिका देवाश्च देव्यश्च योऽनिर्टिष्टनामा देवानांप्रिया! इति सम्बोधनं भवतां मध्ये तीर्थकरस्य मातुर्वोपर्यशुभमनःप्रधारयति-दुष्टं सङ्कल्पयति तस्य ‘आर्यकमञ्जरिकेव' आर्यको-वनस्पतिविशेषोयोलोकेआजओइतिप्रसिद्धस्तस्यमञ्जरिका इव मूर्द्धशतधास्फुटवितिकृत्वा-इत्युक्त्वा घोषणंघोषयत, घोषयित्वाचैतामाज्ञप्तिकांप्रत्यर्पयत इति, अथते यच्चक्रुस्तदाह-'तएणमित्यादि व्यक्तं अनुवादसूत्रत्वात्, अथ निगम-नसूत्रमाह'तएणं, ततस्ते बहवो भवनपत्यादयो देवा भगवतस्तीर्थकरस्य जंममहिमानं कुर्वति, कृत्वा च सिद्धसमीहितकार्या मङ्गलार्थं यत्रैव नंदीश्वरवरद्वीपस्तत्रैवोपागच्छंति उपागत्याष्टाह्निकामहामहिमाः-अष्टदिननिर्वर्तनीयोत्सवविशेषान् कुर्वति, बहुवचनं चात्र सौधर्मेद्रादिभिः प्रत्येकं क्रियमाणत्वात्, अत्र यस्येंद्रस्य यस्मिन्अअनगिरौ येषुचदधिमुखगिरिषुतल्लोकपालानां अष्टाह्निकाधिकारः स प्राक् ऋषभदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्यते॥
वक्षस्कारः-५ समाप्तम् इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजगजंतुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरंमानप्रदाप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतिविजयमानश्रीमत्तपागच्छाधिराजश्री हीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचंद्रगणिशिष्योपाध्यायश्रीशातिचंद्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यांतीर्थकृजंमाभिषेकाधिकावर्णनो नाम पञ्चमो वक्षस्कारः॥
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जंबूद्वीपप्रज्ञप्तिउपागसूत्रे पञ्चमवक्षस्कारस्य शातिचन्द्र वाचकेन विरचिता टीका परिसमाप्ता।
(वक्षस्कारः-६) वृ. पृष्टं जंबूद्वीपान्तर्वर्ति स्वरूपं, सम्प्रति तस्यैव चरमप्रदेशस्वरूपप्रश्नायाह
मू. (२४५) जंबुद्दीवस्सणं भंते! दीवस्स पदेसा लवणसमुदं पुट्ठा?, हंता पुट्टा, तेणं भंते किंजंबुद्दीवेदी लवणसमुहे?, गोअमा? जंबुद्दीवेणंदीवेनो खलु लवणसमुद्दे, एवं लवणसमुहस्सवि पएसाजंबुद्दीवे पुट्ठा भाणिअव्वा इति । जंबुद्दीवेणंभंते ! जीवा उद्दाइत्ता २ लवणसमुहे पञ्चायंति अत्थेगइआ पच्चयंति अत्थेगइआ नो पञ्चायंति, एवं लवणस्सवि जंबुद्दीवे दीवे नेअव्वमिति।
वृ. 'जंबुद्दीवस्स ण मित्यादि, जंबूद्वीपस्य णमिति पूर्ववत् द्वीपस्य प्रदेशा लवणसमुद्रशब्दसहचाराच्चरमप्रदेशा इति व्याख्येयं अंयथा जंबूद्वीपमध्यवर्तिप्रदेशानां लवणसमुद्रस्य
Jain Education International
For Private & Personal Use Only
ww
www.jainelibrary.org