________________
वक्षस्कारः-५
४१९
व्याख्येयं, ततःप्रयतः सन्यथा बालभट्टारकस्य धूपधूमाकुले अक्षिणी न भवतस्तथा प्रयत्नवान् धूपं दत्वा जिनवरेंद्राय, सूत्रे षष्ठी आर्षत्वात्, अङ्गपूजार्थं प्रत्यासेदुषा मया निरुद्धो भगवद्दर्शनमार्गोऽतोऽहं मा परेषा दर्शनामृतपानविघ्नकारी स्यामिति सप्ताष्टानि पदांयपसृत्य दशाङ्गुलिकं मस्तकेऽञ्जलिं कृत्वा प्रयतो-यथास्थानमुदात्तादिस्वरोच्चारेषु प्रयत्नवानष्टशतैः-अष्टोत्तरशतप्रमाणैर्विशुद्धेन ग्रंथेन–पाठेन युक्तैर्महावृत्तैः-महाकाव्यैर्यद्वा महाचरित्रैरपुनरुक्तैः अर्थयुक्तैःचमत्कारिव्यङ्गययुक्तैः सस्तौति संस्तुत्यच वामंजानुअञ्चति-उत्पाटयति, अञ्चित्वाचयावत्पदात् 'दाहिणं जाणुं धरणिअलंसि निवाडेइ' इति ग्राह्यम्, अत्र व्याख्या प्राग्वत्, करतलपरिगृहीतं मस्तकेऽअलिं कृत्वा एवं-वक्ष्यमाणमवादीत्, यदवादीत्तदाह
_ 'नमोऽत्यु ते सिद्धबुद्ध' इत्यादि, नमोऽस्तु ते-तुभ्यं हे सिद्ध एवं बुद्ध इत्यादिपदानि सम्बंधनीयानि, तत्र हे बुद्ध ! ज्ञाततत्व! हे नीरजाः! कर्मरजोरहित ! हे श्रमण!-तपस्विन् ! हे समाहित-अनुकुलचित्त! हेसमाप्त! कृतकृत्यत्वात् अथवा सम्यक्प्रकारेणाप्त! अविसंवादिवचनात्वात् हे समयोगिन् ! कुशलमनोवाक्काययोगित्वात् शल्यकर्तन निर्भय नीरागद्वेष निर्मम निस्सङ्ग-निर्लेप निशल्य मानमूरण-मानमर्दन गुणेषुरलं-उत्कृष्टं यच्छीलं-ब्रह्मचर्यं तस्य सागर अनंत अनंतज्ञानात्मकत्वात् मकारोऽलाक्षणिकः एवमग्रेऽपि अप्रमेय-प्राकृतज्ञानापरिच्छेद्य अशरीरजीवस्वरूपस्य छद्मस्थैः परिच्छत्तुमशक्यत्वादितिअथवाऽप्रमेय भगवदगुणानामनंतत्वेन सङ्ख्यातुमशक्यत्वात् भव्य-मुक्तिगमनयोग्यअत्यासन्नभवसिद्धित्वात् धर्मेण-धर्मरूपेण वरेणप्रधाने भावचक्रत्वात् चतुरंतेन-चतुर्गत्यंतकारिणा चक्रेण वर्तत इत्येवंशीलस्तस् सम्बोधनं हे धर्मवरचतुरंचक्रवर्त्तिन् ! नमोऽस्तु तुभ्यं अर्हते-जगत्पूज्याय इति कृत्वा-इति संस्तुत्य वंदते नमस्यतीत्यादि सूत्रं प्राग्वत्, यच्चात्र विशेणवर्णकस्यादौ नमोऽस्तु ते इत्युक्त्वा पुनरपि नमोऽस्तु तेइत्युक्तंतन्त्र पुनरुक्तये प्रत्युत लाघवाय यतो जगत्र्यप्रतिसतश्चारिणोजगत्रयपतेस्तत्तदसाधारणैकैकविशेषणविभावनात् समुद्भूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं नमोऽस्तु ते इति न प्रयुक्तमिति, इमानि च सर्वाणि विशेषणानि भव्यपदवानि भाविनि भूतवदुपचारादंयथाऽभिषेकसमये जिनानामेताशविशेषणानामसम्भवदिति। ___ अथावशिष्टानामिंद्राणां वक्तव्यं लाघवादाह-“एवं जहा' इत्यादि, एवमुक्तविधिना यथाऽच्युतेंद्रस्याभिषेककृत्यं तथा प्राणतेंद्रस्य यावदीशानेंद्रस्यापि भणितव्यं, शक्राभिषेकस्य सर्वतश्चरमत्वात्, एवंभवनपतिव्यंतरज्योतिष्काश्चंद्राः सूर्यपर्यवसानाः स्वकेन स्वकेन परिवारेण सह प्रत्येकं २ अभिषिञ्चन्ति । अथावशिष्टशक्रस्याभिषेकावसरः-'तए णमित्यादि, ततःत्रिषष्टींद्राभिषेकानंतरमीशानो देवेंद्रो देवराजा पञ्चेशानान् विकुर्वति-एकः ईशानः पञ्चधा भवति, एतदेव विभजति-तत्र एक ईशानो भगवंतं तीर्थकरं करतलसम्पुटे गृह्णाति गृहीत्वा च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः एख ईशानः पृष्ठतः आतपत्रंधरति द्वावीशानावुभयोः पार्श्वयोः चामरोत्क्षेपं कुरुतः एक ईशानः पुरतः शूलपाणिस्तिष्ठति-ऊर्ध्वस्थो भवति।
सम्प्रत्यव्यग्रपाणि शक्रो यदकरोत्तदाह-'तए ण'मित्यादि, ततः-ईशानेंद्रेण भगवतः करसम्पुटे ग्रहणानंतरं स शक्रो देवेंद्रो देवराजा आभियोग्यान् देवान् शब्दयति, शब्दयित्वा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org