________________
४१२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२४० वयारकलिअंकरेंति, अप्पे० कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघम-घंतगंधु आभिरामं सुगंधवरगंधियं' इति ग्राह्यं, पुनः प्रकारांतरेण देवकृत्यमाह-'अप्पे० हिरन्न'इत्यादि, अप्येककाः हिरण्यस्य-रूप्यस्य वर्ष-वृष्टि वर्षतिकुर्वतीत्यर्थः, एवं सर्वत्र योजना कार्या, नवरंसुवर्णप्रतीतं, रत्नानि-कतनादीनिवजाणि-हीरकाः आभरणानि-हारादीनि पत्राणि-दमनकादीनिपुष्पाणि फलानि च प्रतीतानि बीजानि सिद्धार्थादीनि माल्यानि-ग्रथित- पुष्पाणि गंधाः-वासाः वर्णो-हिङ्गुलादि यावच्छब्दाद्वस्त्रमति चूर्णानि-सुगंधद्रव्यक्षोदाः, तथा अप्येककाः हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजयतिशेषदेवेभ्योददतीत्यर्थः, एवंयावत्पदात्सुवर्णविधि रत्नविधिं इत्यादिपदानि ग्राह्याणि चूर्णविधिं भाजयन्ति । ___अथसङ्गीतविधिरूपमुत्सवमाह-'अप्पेगइआचउव्विहं वजं' इत्यादि, अप्येककाश्चतुर्विधं वाद्यंवादयन्ति, तद्यथा-ततं-वीणादिकं विततं-पटहादिकं, श्रीहेमचंद्रसूरिपादास्तुविततस्थाने आनद्धमाहुः, धनं-तालंप्रभृतिकं शुषिरं-वंशादिकं, अप्येककाः चतुर्विधंगेयं गायति, तद्यथाउत्क्षिप्तं-प्रथमतः समारभ्यमाणं पादात्तं-पादवृद्धं वृत्तादिचतुर्भागरूपपादबद्धमिति भावः मंदायमिति-मध्यभागेमूर्च्छनादिगुमोपेततया मंद मंदंघोलनात्मकं, 'रोचितावसाण मिति रोचितंयथोचितलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तत्तथा, 'रोइअग'मिति पाठेरोचितकमित्यर्थः, स एव, अप्येककाः चतुर्विधनाटयं नृत्यति, तद्यथा-अञ्चितंद्रुतं आरभटं भसोलमिति, अप्येककाश्चतुर्विधमभिनयमभिनयति, तद्यथा-दार्टीतिकंप्रातिश्रुतिकं सामांयतो विनिपातिकं लोकमध्यावसानिकमिति, एते नाट्यविधयोऽभिनयविधयश्च भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसेयाः,अप्येकका द्वात्रिंशद्विधं अष्टमाङ्गलिक्यादिकंदिव्यं नाटयविधिमुपदर्शयति, सच येन क्रमेण भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावित्स्तेन क्रमेणोपदय॑ते, तत्र प्रारिप्सित-महानाटयरूपमङ्गल्यवस्तुनिर्विनसिद्धयर्थमादौ मङ्गल्यनाटयं, तथाहि-स्वस्तिकश्रीवत्सनंद्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिचित्रं, अत्राष्टपदानांव्याख्या प्राग्वत्, नवरंतेषांभक्त्या-विच्छित्या चित्रं-आलेखनंतत्तदाकाराविर्भावनायत्रतत्तथा तदुपदर्शयंतीत्यर्थः, यथाहि चित्रकर्मणि सर्वेजगद्वर्त्तिनो भावाश्चित्रयित्वा दर्श्यते तथातेऽभिनयविषयीकृत्य नाट्येऽपि, अभिनयः-चतुर्भिराङ्गिवाचिकसात्विकाहार्यभेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनं, प्रस्तुते चाङ्गिके नाट्यकर्तृणा तत्तंमङ्गलाकारतयाऽवस्थानं हस्तादिना तत्तदाकारदर्शनं वा वाचिकेन प्रबंधादौ तत्तंमङ्गलशब्दोच्चारणं सभासदां मनसि रक्तिपूर्वकं तत्तंमङ्गलस्वरूपाविर्भावनं मङ्गलनाटयमिति १।।
___ अथद्वितीयं नाट्यं, आवर्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासंतील ताद्मलतापभक्तिचित्रं, तत्र सृष्टिमेण भ्रमदभ्रमरिकादानैर्नर्तनमावर्तस्तद्विपरीतक्रमेण भ्रमरिकादानैर्नर्तनं परत्यावर्तः श्रेण्या-पङ्कत्या स्वस्तिकाः श्रेणिस्वस्तिकाः, तेचैकपङ्क्तिगताअपि स्युरिति अनुवृत्ताः श्रेणिस्वस्तिकाः प्रश्रेणिस्वस्तिकाः, अत्रप्रशब्दोऽनुवृत्तार्थेयथाप्रशिष्यः प्रपुत्र इत्यादौ, अयमर्थः-मुख्यस्यैकस्य स्वस्तिकस्य प्रतिशाखं गता अंये स्वस्तिका इत्यर्थः, एतेन प्रथमनाट्यगतस्वस्तिकनाटयाद् भेदो दर्शितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org