________________
३६२
विदेहव्यासे क्व भद्रशालवनाकाश इति प्रश्नो दूरापास्त इति ।
अथैतद्वर्णनातिदेशायाह - 'से णं एगाए' इत्यादि, प्राग्वत्, अथात्र सिद्धायतनादिवक्तव्यमाह-‘मन्दरस्स’इत्यादि, मेरोः पूर्वतः पञ्चशदयोजनानि भद्रशालवनमवगाह्य अतिक्रम्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञप्तं, पञ्चाशदयोजनान्यायामेन पञ्चविंशतिर्योजनानि विष्कम्भेन षट्त्रिंशयोजनानि ऊर्ध्वोच्चत्वेन अनेकस्तम्भशतसन्नविष्टेत्यादिकः सूत्रतोऽर्थतश्च वर्णकः प्रागुक्तो ग्राह्यः
अथात्र द्वारादिवर्णकसूत्राण्याह- 'तस्स ण' मित्यादि, प्राग्वत्, 'तस्स' त्ति, 'तीसेण' मित्यादि, सूत्रद्वयं व्यक्तं । अथोक्तरीतिमवशिष्टसिद्धायतनेषु दर्शयति- 'मन्दररस' इत्यादि, मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवनं पञ्चाशदयोजनान्यवगाह्येत्याद्यालपको ग्राह्यः, एवं चतुर्दिक्ष्वपि मन्दरस्य भद्रशालवने चत्वारि सिद्धायतनानि भणितव्यानि यच्च त्रिष्वतिदेष्टव्येषु चत्वार्यतिदिष्ानि तत्र जम्बूद्वीपद्वारवर्णके 'एवं चत्तारिवि दा भाणिअव्वा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् ।
अथैतदतपुष्करिण्यो वक्तव्याः - 'मन्दरस्स' इत्यादि, सुगमं, अथासां प्रमाणाद्याह- 'ताओ ण' मित्यादि, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशदयोजनान्यवगाह्यात्रान्तरे चतस्र नन्दानन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च प्रादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमुदप्रभा चैवः समुच्चये ताश्च पुष्करिण्यः पञ्चाशदयोजनान्यायामेन पंचविंशतिं योजनानि विष्कम्भेन दशयोजनान्युद्वेधेन - उण्डत्वेन वर्णको वेदिकावनखण्डानां भणितव्यः प्राग्वत्, यावच्चतुर्द्दिश तोरणानि ।
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९४
अथैतासां मध्ये यदस्ति तदाह - तासां पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेकः ईशानदेवेन्द्रस्यदेवराज्ञः प्रासादावतंसकः प्रज्ञप्तः, कोऽर्थः ? - तं प्रासादं चतसः पुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूर्ध्वोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरनत्वादायामेनापि, 'अब्भुग्गयमूसिअ ' इत्यादि प्रसादानां वर्णनं प्राग्वत्, एवमुक्ताभिलापानुसारेण सपरिवारः - ईशानेन्द्रयोग्यशयनीयसिंहासनदिपरिवारयुक्तः प्रासादावतंसको भणितव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-मेरोः एवमितिपदमुक्तातिदेशार्थं तेन 'भद्दसालवणं पन्नासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्यं, नवरं दक्षिणपूर्वस्यामिति - आग्नेय्यां दिशीत्यर्थः, ताश्चोत्पलगुल्मादयः पूर्वक्रमेण तदेव प्रमाणंईशानविदिग्गतवप्रासादप्रमामेनेत्यर्थः, दक्षिणपश्चिमायामपि नैऋत्यां विदिशि पुष्करिण्यो भृङ्गाद्याः प्रादक्षिण्येन ज्ञेयाः, प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारं, उत्तरपश्चिमाया-वायव्यां विदिशि पुष्करिण्यः श्रीकान्ताद्याः प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारं, अत्र उत्तरदिकसम्बद्धत्वेन एशानवायव्यप्रासादौ ईशानेनन्द्रसत्कौ दक्षिणदिकसम्बद्धत्वेन आग्नेयनैर्ऋतप्रासादी शक्रेन्द्रसत्काविति । सम्प्रति दिग्गजकूटवक्तव्यतामाह
'मन्दरे णं भंते! पव्वए' इत्यादि, प्रश्नसूत्रे दिक्षु - एशान्यादिविदिकप्रभृतिषु हस्त्याकाराणि कूटानि दिगहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहारः ऋषभकूटप्रकरण इव ज्ञेयः, स्थानाङ्गेऽष्टमस्थाने तु पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानिति ।
मू. (१९५)
पउमुत्तरे १ नीलवंते २ सुहत्थी ३ अजनागिरी ४ । कुमुदे अ ६ पलासे अ ६, वडिंसे ७ रोअणागिरी ८ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org