SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-४ ३५७ ६, गन्धिलो विजयोऽवध्या राजधानी देवो वक्षस्कारः७, गन्धिलावती विजयोऽयोध्या राजधानी ८, एवं-उक्ताभिलापेन शीतोदाकृतविभागद्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्स् पाश्चात्यं पार्श्वभणितव्यामिति, अथात्र संग्रहमाह 'तत्थतावसीओआ' इत्यादि, विवृतप्राय, नवरंतत्र संग्रहेविवक्षितव्येतावदिति भाषाक्रमे अङ्केतिपदैकदेशे पदसमुदायोपचारात् अङ्कावती, एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशतोऽपि विजयानांनामानयनोपायमाह-“एवंइत्थ परिवाडी' इत्यादि, एवम्-उक्तरीत्या अत्र-परिपाट्यां विभागचतुष्टयगतविजयानुपूर्व्या द्वौ विजयौ कुटसहग्नामकौ भणितव्यौ, स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटसध्शनामकावित्यर्थः, तथाहि चित्रकूटवक्षस्कारे कूटचतुष्टयमध्ये आद्यं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्तृतीयंकंच्छनामकंचतुर्थं सुकच्छनामकंतेन कच्छसुकच्छविजयावित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशि-प्राच्याद्याः विषरीतदिशो विदिशश्च भणितव्याः, यथा प्राच्याः प्रतीची उदीच्याश्वापाची, एवं दिग्विदिग्नियमः कार्य, तथाहि-कच्छो विजयः शीताया महानद्याः उत्तरस्यां नीलवतो वर्षधरस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कारपर्वतस्यपश्चिमायांमाल्यवतो गजदन्ताकारवक्षस्कारपर्वतस्य पूर्वस्वामिति, एवं सुकच्छादिषु विजयेष्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तद्दिगनियमः कार्य, एवं शीतोदामुखवनं च भणितव्यं, तद्विभागतो दर्शयति-शीतोदायाः दाक्षिणात्यं चौत्तराहं चेति, अथ चतुर्थविभागगतविजयादिसंग्रह:___'सीओआए' इत्यादि, सम्प्रत्यनुक्तपूर्वं पाश्चात्यविभागद्वयगतान्तरनदीसंग्रहमाहसीओआ'इत्यादि, प्राग्वत्, नवरं 'उत्तरिल्लविजयाण' इति औत्तराहविजयानां, 'अंतराउ'त्ति अन्तरनद्यः ‘तेलुग्वा' इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहःप्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोक्तस्तत्र सूत्रकाराणां प्रवृत्तिविचित्र्यं हेतुर्व्यवच्छिन्नसूत्रता वेति। अत्र सरलवक्षस्कारकूटेषुनामव्यवस्थोपायमाह-'इत्थ परिवाडीए' इत्यादि,अत्रपरिपाट्या अर्थाद्वक्षस्कारानुपूर्व्या द्वौ द्वौ कूटौ विजयसध्शनामकौ भणितव्यौ, अयं भावः-प्रतिवक्षस्कारं चत्वारि २ कूटानि, तत्राद्यद्वयंनियतं,तच् सूत्रकार एव व्यक्तीकरिष्यतीति, अपरंच द्वयमनियतं तत्र यो यो वक्षस्कारगिरिौँ यौ विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तन्नामकं तस्मिन् वक्षस्कारे तृतीयं कूटं, यो यश्चाग्रिमो विजयसतनामकं चतुर्थं कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एकंसिद्धायतनकूटंद्वितीयं पर्वतसशनामकं कूट, वक्षस्कारसध्शनामकमित्यर्थः, कस्मिन्नपि वक्षस्कारे इमे नाम्नी न व्यभिचरत इत्यवस्थितौ, ननु सिद्धायतनकूटमवस्थितिमिति युक्तं, पर्वतसहगनामकं तु भिन्न २वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति ?, उच्यते, पर्वतसगनामकत्वेन धर्मेणास्यावस्थितत्वं, एताशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूटद्वयस्य विजयसमनामकत्वेन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात् इति वाच्यम्, विजयसमनामकस्य धर्मस्य द्वयोः कूटयोः साधारण्येनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य पूर्वापरविभागकारिणं मेरुं पृच्छन्नाह मू. (१९४) कहि णं भंते ! जंबुद्दीवे २ महाविदेहे वासे मंदरे नामं पव्वए पन्नत्ते ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy