________________
वक्षस्कारः-१
३३
ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यापक्षे हेतुमाह
'अणीइपत्ता’इति न विद्यते ईति-गड्डरिकादिरूपा येषु तान्यनीतिनि अनीतीनि पतराणि येषांते तथा, अयमाशयः-यानि वृक्षस्थानि उक्तस्वरूपाणिपत्राणि तानिवातेन निर्दूय २ भूमौ पात्यन्ते ततोऽपि च प्रायो निर्दूय नि यान्यत्रापसार्यन्त इति, तथा नवेन-सद्यस्केन हरितेनशुकपिच्छाभेन 'भिसन्तत्ति भासमानेन स्निग्धत्वचा दीप्यमाने पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीयाः नवहरितभासमानपत्रभारान्धकारदगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपत्रपल्लवैस्तथा कोमलैः-मनेजैरुज्ज्वलैः शुद्धैश्चलद्भिः-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैस्तथा सुकुमारैः प्रवालैः-पल्लवाडरैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणि येषां ते तथा, इह चाङ्गुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीय इति
'निच्चं कुसुमिया इत्यादिकं 'वडेंसयधरा'इत्यन्तं सूत्रं पूर्ववद् व्याख्येयं, तथा शुकबर्हिणमदनशलाकाकोकिलकोरकभृङ्गारककोण्डलकजीवंजीवक नन्दीमुखकपिलपिङ्गलाक्षककारण्डवचक्रवाककलहंससार सायानामनेकेषां शकुनिगणानां-पक्षिकुलानां मिथुनैःस्त्रीपुंसयुग्मैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषु ते तथा, अत एव सुरम्या-अतिमनोज्ञाः, अत्र शुकाः-कीराः बर्हिणा-मयूराः मदनशलाकाः-सारिकाः कोकिलचक्रवाककलहंससारसाः प्रतीताः, शेषास्तुजीवविशेषाः लोकतोऽवसेयाः, संपिंडिताएकत्र पिण्डीभूता (प्ता-मदोन्मत्ततया दपाध्माता भ्रमरमधुकरीणां पहकराः-संघाताः यत्र ते तथा, तथापरिलीयमाना-अन्यत आगत्यागत्याश्रयन्तो मत्ताः षट्पदाः कुसमासवलोला:किंजल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं विदधाना देशभागेषु येषां ते तथा, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथा अभ्यन्तराणिअन्तर्वर्तीनि पुष्पफलानि येषां ते तथा तथा बहि पत्रैः छन्ना-व्याप्ताः।
__तथा पत्रैश्च पुष्पैश्च छन्नपरिच्छन्ना-एकार्थिकशब्दद्वयोपादानात् अत्यन्तमाच्छादिताः, तथा नीरोगका रोगवर्जिता वृक्षचिकित्साशास्त्रषु येषां प्रतिक्रिया तैः रोगैः स्वत एव विरहिता इत्यर्थः, तथाऽकण्टकाः न तेषु मध्ये बदर्यादयः सन्तीतिभावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, स्निग्धफला इत्यपि कचि, नानाविधैर्गुच्छै:-वुन्ताकीप्रभृतिगुल्मैः-नवमालिकादिभिर्मण्डपकैः-द्राक्षामण्डपकैः शोभिताः उक्तरूपैर्गुच्छादिभिस्तं संश्रिता इत्यर्थः, तथा विचित्रान् शुभान्केतून्-ध्वजान्प्राप्ताः विचित्तसुहकेउबहुला' इतिपाठान्तरं, तत्र विचित्रैःशुभैः-मङ्गलभूतैः केतुभिध्वजैर्बहुला-व्याप्ताः, तथावाप्यश्चतुरस्रका-रास्ता एव वृत्ताः-पुष्करिण्यः दीर्धिका-ऋजुसारिण्यः, तासु सुष्टु निवेशितानि रम्याणिजालगृह- काणि यत्र ते तथा, अयमर्थः-यत्र ते वृक्षा आसन् तत्र वाप्यादिषु गवाक्षवन्ति गृहाणि व्यन्तरमिथुनानां जलकेलिकृते बहूनि सन्तीति।
पिंडिमनि रिमा-पुद्गलसमूहरूपांदूरदेशगामिनींचसुगन्धिं-सद्गन्धिकांशुभसुरभिम्यो गन्धान्तरेभ्यः सकाशान्मनोहरायासातथातांचमहता-मोचनप्रकारेणप्राकृतत्वाद्वा द्वितीयार्थे तृतीया महतीमित्यर्थः गन्धध्राणि-यावद्भिर्गन्धपुद्गलैणिन्द्रियस्य तृप्तिरुपजायते तावती | 133
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org