________________
३२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/५ न चैतदुपचारमात्रं किन्तु प्रतिभासोऽपि । तत उक्तं स्निग्धावभासस्तीव्रावभास इति, इह चावभासो भ्रान्तोऽपि स्याद्यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपमुपवर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह- कृष्णो वनखण्डः, कुत इत्याह- कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थयस्मात् कृष्णा छाया - आकारः सर्वाविसंवादितया तस्यास्ति तस्मात् कृष्णः, एतदुक्तं भवति
सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससम्पादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्या स कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, एवं नीलो नीलच्छा इत्याद्यपि भावनीयं, नवरं शीतः शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घण' त्ति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना - अन्योऽन्य शाखा प्रशाखानुप्रवेशतो निबिडा कटितटे - मध्यभागे छाया यस्य (स) घनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, वाचनान्तरे 'घणकडिअकडच्छाए' ति पाठे तु कटः सञ्जातोऽस्येति कटितः कटान्तरेणोपर्यावृत इत्यर्थः कटितश्चासौ कटश्च कटितकटः, घना निबिडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छायः, अत एक रम्यो- रमणीयः, तथा महान् - जलभारावनतः प्रावृटकालभावी यो मेघनिकुरम्बोमेघसमूहस्तं भूतो गुणैः प्राप्तो महामेघवृन्दोपम इत्यर्थः ।
'ते णं पायव’त्ति यत्सम्बन्धी वनखण्डस्ते पादपाः 'मूलमन्त' इत्यादीनि दश पदानि, तत्र मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, यानि कन्दस्याधः तानि मूलानि तेषामुपरिवर्त्तिनः कन्दाः स्कन्धः - स्थुडं यतो मूलशाखा प्रभवन्ति त्वक्- छल्ली शाला- शाखा प्रवाल:- पल्लवाङ्कुरः, पत्रपुष्पफलबीजानि प्रसिद्धानि, सर्वत्रातिशायने क्वचिद् भूम्नि वा मतुप् प्रत्ययः, 'आनुपुव्वि'त्ति आनुपूर्व्या-मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वीसुजाताः रुचिराःस्निग्धतया दीप्यमानच्छविमन्तः तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ? -एवं नाम सर्वासु दिक्षु विदिक्षु च शाखादिभि प्रसृता यथा वर्त्तुलाकृतयो जाता इति, ततः पदत्रयस्य कर्म्मधारयः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रत्वमिति एगक्खंधी इति सूत्रपाठः, अनेकाभि शाखाभि प्रशाखाभिश्च मध्यभागे विटपो- विस्तारो येषां ते तथा, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैः नरव्यामैः - पुरुषव्यामैः सुप्रसारितैरग्राह्यः - अमेयो घनो - निबिडो विपुलो - विस्तीर्ण स्कन्धो येषां ते तथा
अच्छिद्राणि पत्राणि येषां तेऽच्छिद्रपत्राः, किमुक्तं भवति ? -न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरीतिरुपजायते येन तेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जातानि येन मनागप्यन्तरालरूपं छिद्रं नोपलक्ष्यत इति, अच्छिद्रप्राः कुत इत्याह- 'अविरलपत्ता' इथि, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतोऽविरलपत्रा अतः अच्छिद्रपत्राः, अविरलपत्रा अपि कुत इत्याह-- ' अवाईण' त्ति वाती - नानि - वातोपहतानि वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ? न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ पतन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org