SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३४३ वक्षस्कारः - ४ चित्तकूडे नामं वक्खारपव्वए पन्नत्ते । - - उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साइं पञ्च य बानउए जोअणसए दुन्नि अ एगूणवीसइभाए जोअणस्स आयामेणं पञ्च जोअणसयाइं विक्खम्भेणं नीलवंतवासहर - पव्वयंतेणं चत्तारि जोअणसयाइं उद्धं उच्चत्तेणं चत्तार गाऊअसयाइं उव्वेहेणं तयणंतरं च णं मायाए २ उस्सेहोव्वेहपरिबुद्धीए परिवद्धमाणे २ सीआमहानईअंतेणं पञ्च जो अणसयाई उद्धं उच्चत्तेणं पञ्च गाऊअसयाइं उव्वेहेणं अस्सखंधसंठाणसंठिए सव्वरयनामए अच्छे सहे जाव पडिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं संपरिक्खित्ते, वण्णओ दुण्हवि - चित्तकूडस्स णं वक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव आसयंति, चित्तकूडे णं भंते ! वक्खारपव्वए कति कूड़ा प० गो० तं० - सिद्धाययनकूडे चित्त० कच्छ० सुकच्छ०, समा उत्तरदाहिणेणं परूप्परंति, पढमं सीआए उत्तरेणं चउत्थए नीलवंतस्स वासहरपव्वयस्स दाहिणेणं एत्थ णं चित्तकूडे नामं देवे महिद्धीए जाव रायहाणी सेत्ति । बृ. 'कहि ण' मित्यादि, सुलभं, नवरं आयामः षोडशसहस्रयोजनादिरूपो विजयसमान एव, विजयानां विजयवक्षस्काराणां च तुल्यायामत्वात्, तेन तत्करणं प्राग्वदेव, विष्कम्भे तु पञ्च योजनशतानिति विशेषस्तेन, ननु तानि कथमिति, उच्यते, जम्बूद्वीपपरिमाणविष्कम्भात् षन्नवतिसहस्रेषु शोधितेषु अवशिष्टानि चत्वारि सहस्राणि एकस्मिन् दक्षिणभागे उत्तरे वाऽष्टौ वक्षस्कारगिरयस्ततोऽष्टभिर्विभज्यन्ते, ततः सम्पद्यते वक्षस्काराणां प्रत्येकं पूर्वोक्तो विष्कम्भः, इह हि विदेहेषु विजयान्तरनदीमुखवनमेर्वादिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविस्तृताः सर्वत्र तुल्यविस्तारास्ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं पंचत्रिंशत्सहस्राणि चत्वारिशतानि षडुत्तराणि, अन्तरनदीषटकपृथुत्वं सप्त शतानि पंचाशदधिकानि मेरुविष्कम्भपूर्वापर भद्रशालवनायामपरिमाणं चतुःपंचाशत्सहस्राणि मुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि, सर्वमीलने जातानि षन्नवतिसहस्राणि । - तथा नीलवद्वर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूर्ध्वोच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन तदनन्तरंच मात्रया २ - क्रमेण २ उत्सेधोद्वेधपरिवृद्धया परिवर्द्धमानः २, यत्र यावदुच्चत्वं तत्र तच्चतुर्थभाग उद्वेध इति द्वाभ्यां प्राकाराभ्यामधिकतरो २ भविन्नित्यर्थः, शीतामहानद्यन्ते पंचयोजनशतान्यूर्ध्वोच्चत्वेन पंचगव्यतशतान्युद्वेधेन, अत एवाश्वस्कन्धसंस्थानसंस्थितः प्रथमतोऽतुङ्गत्वात् क्रमेणान्ते तुङ्गत्वात्, सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य शिखरसौभाग्यमावेदयति'चित्तकूडस्स ण०' व्यक्तं, अथात्र कूटसङ्ख्यार्थं पृच्छति - 'चित्तकूडे ' इत्यादि, पदयोजनासुलभा, भावार्थस्त्वयम्-परस्परमेतानि चत्वार्यपि कूटानि उत्तरदक्षिणभावेन समानि-तुल्यानीत्यर्थः । तथाहि - प्रथमं सिद्धायतनकूटं द्वितीयस्य चित्रकूटस्य दक्षिणस्यां चित्रकूटं च सिद्धायतनकूटस्योत्तरस्यां, एवं प्राक्तनं २ अग्रेतनाद् २ दक्षिणस्या अग्रेतनम् २ प्राक्तनात् २ उत्तरस्यां ज्ञेयं, तर्हि शीतानीलवतोः कस्यां दिशि इत्याह- प्रथमकं शीताया उत्तरतः चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणतः, सूत्रपाठोक्तक्रमबलात् द्वितीयं चित्रनामकं प्रथमादनन्तरं ज्ञेयं, तृतीयं कच्छनामकं चतुर्थादर्वाक् ज्ञेयमिति, चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy