SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१६४ विजयाधिपकूटसागरकूटरजतकूटं, इदंचान्यत्र रुचकमितिप्रसिद्धं, शीताकूट-शीतासितूसुरीकूटं, पदैकदेशेपदसमुदायोपचारइति सिद्धि, चः समुच्चये, पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटंपूर्णभद्रकूटम्, हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूटं हरिस्सहकूट, चैवशब्द पूर्ववत्, सम्प्रत्यमीषां स्थानप्ररूपणायाह मू. (१६५) कहिणं भंते ! मालवंते वक्खारपव्वए सिद्धाययनकूडे नामं कूडे प० गो० मन्दरस्सपव्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेण एत्थ णं सिद्धाययने कूडे प० पंच जोअणसयाइं उद्धं उच्चत्तेणं अवसिद्धं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तकुरूकूडस्स कच्छकूडस्स, एएचत्तारिकूडा दिसाहिं पमाणेहिं नेअब्बा, कूडसरिसनामया देवा । कहिणं भंते! मालवंतेसागरकूडेनामंकूडेप० गो० कच्छकूडस्स उत्तरपुरस्थिमेणंरययकूडस्स दक्खिणेणं एत्थणं सागरकूडे नामंकूडे पन्नत्ते, पंच जोअणसयाइंउद्धं उच्चत्तेणं अवसिद्वंतं चेव सुभोगा देवी रायहाणी उत्तरपुरस्थिमेणं रययकूडे भोगमालिनी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं नेअव्वा एक्केणं पमाणेणं। पृ.'कहिण'मित्यादि, प्रश्नःप्रतीतः, उत्तरसूत्रेमन्दरस्यपर्वतस्यउत्तरपूर्वस्यां-ईशानकोणे प्रत्यासन्नमाल्यवतकूटस्य दक्षिणपश्चिमायां नैऋतकोणे, अत्र सिद्धायतनकूटं प्रज्ञप्तमिति गम्यं, पञ्चयोजनशतान्यर्वोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं वक्तव्यं तदेव गन्धमादनसिद्धायतनकूटवदेववाच्यं, यावद्राजधानी भणितव्यास्यात्, अयमर्थः-सिद्धायतनकूटवर्णकेसामान्यतः कूटवर्णकसूत्रं विशेषतः सिद्धायतनादिवर्णकसूत्रंच द्वयमपि वाच्यं, तत्र सिद्धायतनकूटे राजधनीसूत्रं न सङ्गच्छते इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति, अत्र यावच्छब्दो न संग्राहकः किन्त्ववधिमात्रसूचकः, यथा 'आसमुद्रक्षितीशाना'मित्यत्र समुद्रं विहाय क्षितीशत्वं वर्णितमिति, लाघवार्थमत्रातिदेशमाह- “एवं मालवंतस्स'इत्यादि, एवं सिद्धायतनकूटरीत्या माल्यकूटस्य उत्तरकुरुकूटस्य कच्छकूटस्य वक्तव्यं, ज्ञेयमिति गम्यं, अथैतानि कि परस्परं स्थानादिना तुल्यानि उतातुल्यानीत्याह- एतानि सिद्धायतनकूटसहितानि चत्वारि परस्परं दिग्भिरीशानविदिरूपाभिप्रमाणैश्च नेतव्यानि, तुल्यानीति शेषः, अयमर्थः-प्रथमंसिद्धायतनकूटं मेरोरुत्तरपूर्वस्यादिशि ततस्तस्य दिशिद्वितीयंमाल्यवस्कूटंततस्तस्यामेव दिशितृतीयमुत्तरकुरुकूटं ततोऽप्यस्यां दिशि कच्छकूट, एतानि चत्वार्यपि कूटानि विदिग्भावीनि मानतो हिमवत्कूटप्रमाणानीति, कूटसग्नामकाश्चात्र देवाः, अत्र यावत्सम्भवं विधिप्राप्ति'रितिन्यायात् सिद्धकूटवर्जेषु त्रिषुकूटेषु कूटनामकादेवाइति बोध्यं, सिद्धायतनकूटेतुसिद्धायतनं, अन्यथा॥१॥ “छसयरि कूडेसुतहा चूलाचउ वणतरूसु जिनभवणा। भणिआ जंबुद्दीवे सदेवया सेस ठाणेसु॥" इति स्वोपज्ञक्षेत्रविचारे रत्लशेखरसूरिवचो विरोधमापद्येतेति, अथावशिष्टकूटस्वरूपमाह-'कहिणमित्यादि, प्रश्नसूत्रं सुगमम्, उत्तरसूत्रेकच्छकूटस्यचतुर्थस्योत्तरपूर्वस्यांरजतकूटस्य दक्षिणस्यामत्रान्तरे सागरकूटं नाम कूटं प्रज्ञप्तं, पञ्चयोजनशतान्यूर्वोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकंतदेव, अत्र सुभोगानाम्री दिक्कुमारी देवीअस्या राजधानी मेरोरुत्तरपूर्वस्यां, रजतकूटं षष्टं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिक्कुमारी सुरी राजधानी उत्तरपूर्वस्यां, अवशिष्टानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy