________________
३१२
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ४/१४१ से एएणड्डेणं गोअमा! एवं वुच्चइ गंधमायणे वक्खारपब्बए २, गंधमायणे अइत्थ देवे महिद्धीए परिवसइ, अदुत्तरंच णं सासए नामधिजे इति।
.'कहिण'मित्यादि, कव भदन्त ! महाविदेहे वर्षेगन्धमादनोनामवक्षसि-मध्ये स्वगोप्यं क्षेत्रं द्वौ संभूय कुर्वन्तीतिवक्षस्काराः, तजातीयोऽयमिति वक्षस्कारपर्वतोगजदन्तापर्यायः प्रज्ञप्तः? गौतम ! नीलवन्नाम्नो वर्षधरपर्वतस्य दक्षिणभागेन मन्दरस्य पर्वतस्य मेरोरुत्तर-पश्चिमेनउत्तरस्याः पश्चिमायाश्च अन्तरालवर्तिना दिग्विभागेन वायव्यकोणे इत्यर्थः, गन्धिलावत्याःशीतोदोत्तरकूलवर्तिनोऽष्टमविजयस्य पूर्वेण उत्तरकुरूणां-सर्वोत्कृष्टभोगभूमिक्षेत्रस्य पश्चिमेन अत्रान्तरे महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणयोरायतः प्राचीनप्रतीचीनयोः-पूर्वपश्चिमयोर्दिशोः विस्तीर्ण, त्रिंशदयोजनसहस्राणि द्वेचनवोत्तरेयोजनशते षट् च एकोनविंशतिभागान् योजनस्यायामेन, अत्र यद्यपि वर्षधराद्रि-सम्बद्धमूलानां वक्षस्कारगिरीणां साधिकैकादशाष्टशतद्विचत्वारिंशद्योजनप्रमाणकुरुक्षेत्रान्त-वर्तिनामेतावानायामो नसम्पद्यतेतथाऽप्येषांवक्रभावपरिणतत्वेन बहुतरक्षेत्रागाहित्वात्सम्भवतीति, नीलवद्वर्षधरसमीपे चत्वारियोजनशतानिऊर्वोच्चत्वेन चत्वारिगव्यतशतानि उद्वेधेनपञ्चयोजनशतानि विष्कम्भेन, तदनन्तरंमात्रया २-क्रमेण क्रमेणोत्सेधोद्वेधयोः-उच्चत्वोण्डत्वयोः परिवृद्धया परिवर्द्धमानः २ विष्कम्भपरिहाण्या परिहीयमाणः२ -
-मन्दरपर्वतस्य-मेरोरन्ते-समीपे पञ्चयोजनशतान्यूर्वोच्चत्वेन पञ्चगव्यतिशतानिउद्वेधेन अंगुलस्यासङ्ख्यभागं विष्कम्भेन प्रज्ञप्तः, गजदन्तस्य यत्संस्थानं-प्रारम्भे नीचत्वमन्ते उच्चत्वमित्येवंरूपं तेन संस्थितः, सर्वात्मना रत्नमयः, श्रीउमास्वातिवाचककृतजम्बूद्वीपसमासप्रकरणे तुकनकमयइति, शेषप्राग्वत्, अथास्य भूमिसौ भाग्यमावेदयति-'गन्धमायण'इत्यादि, गन्धमादनस्य वक्षस्कारपर्वतस्योपरिबहुमरमणीयोभूमिभागःप्रज्ञप्तः,अत्र यावत्पदाद्वैताढयाद्रिशिखरतलवर्णकगतं सर्वं बोध्यं । सम्प्रत्यत्र कूटवक्तव्यतामाह- 'गन्धमायण'इत्यादि, व्यक्तं, नवरं स्फटिककूटं स्फटिकरत्नमयत्वात् लोहिताक्षकूटं लोहितरलवर्णत्वात्, आनन्दनाम्नो देवस्य कूटमानन्दकूटं। ननु यथा वैताढ्यादिषु सिद्धायत-नादिकूटव्यवस्थापूर्वापरायतत्वेन तद्वदत्रापि उत कश्चिद्विशेष इत्याह-'कहिणंभंते!' इत्यादि, व्यक्तं, नवरंयथावैताढ्यादिषु सिद्धायतनकूटं समुद्रासनं पूर्वेण ततः क्रमेण शेषाणि स्थितानि तथाऽत्र मन्दरासनं सिद्धायतनकूटंमन्दरादुत्तरपश्चिमायांवायव्यां दिशिगन्धमादनकूटस्यतु दक्षिणपूर्वस्यां-आग्नेय्यामस्ति, यदेवक्षुद्रहिमवति सिद्धायतनकूटस्य प्रमाणंतदेवैतेषां सर्वेषां सिद्धायतनादिकूटानां भणितव्यं, अर्थावर्णनमपि तद्वदेवेति, व्यवस्था तु शेषकूटानामत्र भिन्नप्रका-रेणेति मनसिकृत्याह___“एवं चेव' इत्यादि, एवं चेवेत्येवं-सिद्धायतनानुसारेण विदिक्षु-वायव्यकोणेषु त्रीणि कूटानि सिद्धायतनादीनि भणितव्यानि, उक्तवक्तव्यानां मिश्रितनिर्देशस्तु एवं चत्तारिविदारा भाणिअव्वा' इति सूत्रविवरणोक्तयुक्त्या समाधेयः, अयमर्थः-मेरुत उत्तरपश्चिमायां सिद्धायतनकूटं, तस्मादुत्तरपश्चिमायां गन्धमादनकूटं तस्माच्च गन्धिलावतीकूटमुत्तरपश्चिमायामिति, अत्र तिम्रोवायव्यो दिशः समुदिता विवक्षिताइति बहुत्वेन निर्देशः, चतुर्थमुत्तरकुरुकूटंतृतीयस्य गन्धिलावतीकूटस्योत्तरपश्चिमायांपञ्चमस्य स्फटिककूटस्यदक्षिणतः, ननुयथा तृतीयाद्गन्धिला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org