SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ४ ३०७ संपरिक्खित्ता । निसढे णं भंते ! वासहरपव्वए णं कति कूडा पन्नत्ता ?, गोयमा ! नव कूडा पन्नत्ता, तंजहा- सिद्धायनकूडे १ निसढकूडे २ हरिवासकूडे ३ पुव्वविदेहकूडे ४ हरिकूडे ५ धिईकूडे ६ सीओ आकूडे ७ अवरविदेहकूडे ८ रुअगकूडे ९ जो चेव चुल्लहिमवंतकूडाणं उच्चत्तविक्खम्भ- परिक्खेवो पुव्ववण्णिओ रायहाणी अ सच्चेव इहंपि नेअव्वा । सेकेणट्टेणं भंते! एवं वच्चइ णिसहे वासहरपव्वए २ ?, गोअमा ! निसहे णं वासहरपव्वए बहवे कूड़ा निसहसंठाणसंठिआ उसभसंठाणसंठिआ, निसहे अ इत्थ देवे महिद्धीए जाव पलि ओवमट्ठिई परिवसइ, से तेणट्टेणं गोअमा ! एवं वुञ्च्चइ निसहे वासहरपव्वए २ । वृ. ' तस्स ण' मित्यादि तस्य तिगिंछिद्रहस्य दाक्षिणात्येन तोरणेन हरिनाम्नी हरिसलिला - परपर्याया महानदी प्रव्यूढा सती सप्तयोजनसहस्राणि चत्वारि च योजनशतानि एकविंशानि - एकविंशत्यधिकानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा इत्यादि प्राग्वत्, गिरिगन्तव्योपपत्तिस्तु षोडशसहस्राष्टशतद्वाचत्वारिंशद्योजनप्रमाणान्निषधव्यासाद् द्विसहस्रयोजनप्रमाणे हृदव्यासेऽपनीते शेषेऽद्धकृते भवतीति । निगमयन्नतिदेशसूत्रमाह 'एव' मित्यादि, 'एव' मित्युक्तप्रकारेण यैव हरिकान्ताया वक्त - व्यता सैव हरितोऽपि महानद्या नेतव्या, जिहिवकाया हरिकुंडस्य हरिद्वीपस्य भवनस्य च तदेव प्रमाणं हरिकान्ताप्रकरक्रमवसेयं, अर्थोऽपि हरिद्वीपनाम्नो वाच्यः, अत्र यावत्पदवाच्यं साक्षाल्लिखितं च सर्वं हरिकान्ताप्रकरण इव ज्ञेयं ॥ अथास्माद्या उत्तरेण नदी प्रवहति तामाह 'तस्स णं तिगिंछिद्दह' इत्यादि, व्यक्तं, गिरिगन्तव्यं तु हरिनद्या इवावसेयं, अथास्या जिह्विकास्वरूपमाह - 'सीओओ' इत्यादि, उत्तानार्थं, नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिह्विकाद्विगुणत्वात्, पञ्चाशद् योजनानि विष्कमभेन हरिन्नदीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात्, एवं बाहल्यमपि पूर्वजिह्विकातो द्विगुणमवसेयम्, अथ कुंडस्वरूपमाह - 'सीओआ महानईजहिं इत्यादि, 'एत्यण मित्यादि, अत्र कुंडस्य योजनसङ्ख्या हरिकुंडतो द्वैगुण्ये - नोपपादनीया । अथ सीतोदाद्वीपस्वरूपमाह - 'तस्स ण' मित्यादि, अत्र शीतोदाद्वीपः आयामविष्कम्भाभ्यां चतुःषष्टियोजनानि पूर्वनदीद्वीपतो द्विगुणायामविष्कम्भत्वात्, द्व्यधिके द्वे शते परिक्षेपेण, अत्र सूत्रे ऽनुक्तमपि करणवशात् किश्चित्साधिकत्वं ज्ञेयं, द्वौ क्रोशौ जलादुत्थितः सर्ववज्रमयः अच्छः शेषमुक्तातिरिक्तं गङ्गाद्वीपप्रकरणोक्तमवसेयं तच विनेयस्मारणार्थं नामतो निर्दिशतिवेदिकावनखण्डभूमिभागभवनशयनीयानि वाच्यानि, अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात्, अर्थश्च शीतोदाद्वीपस्य गङ्गाद्वीपवत् भणितव्य इति । अथ यथेयं पयोधिमुपयाति तथाह - तस्य सीतोदाप्रपातकुंडस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरून् इग्रती २ - गच्छन्ती २, अत्र सूत्रे एकवचनं आकारान्तत्वं च प्राकृतत्वात्, विचित्रविचित्रकूतौ पूर्वापर- कूलवर्त्तिनौ निषध १ देवकुरु २ सूर ३ सुलस ४ विद्युाभ ५ द्रहांश्च द्विधा विभजन्ती २ - तन्मध्ये वहन्ती २, अत्रेयं विभागयोजना - चित्रविचित्रकूटपर्वतयोर्मध्ये बहनेन चित्रकूटं पर्वतं पूर्वतः कृत्वा विचित्रकूटं च पश्चिमतः कृत्वा देवकुरुष वहन्ती इति, द्रहांश्च पञ्चापि समश्रेणिवर्त्तिन एकैकरूपान् द्विभागीकरणेन वहन्तीति, अत्रान्तराले देवकुरुवर्त्तिभिश्चतुरशीत्या सलिलासह म्ररापूर्यमाणा २ भद्रशालवनं-मेरुप्रथमवनं इग्रती २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता, शीतोदामेर्वोरष्टौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy