________________
वक्षस्कारः-४
२८७
व्याससत्कपञ्चशतयोजनानां पर्यवसितत्वात, शोभमानाश्चोक्तरीत्यैव भवन्तीति।
किञ्च-इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात्, वानस्पतान्यपि बहूनि तत्रोत्पद्यन्ते, यदाहुः श्रीउमाखातिवाचकपादाःस्वोपज्ञम्बूद्वीपसमासप्रकरमे-“नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिपुष्पाञ्चित" इति, अन्यथा श्रीवज्रस्वामिपादाः श्रीदेवतासमर्पितानुप - मेयमहापद्मानयनेन पुरिकापु-कथं जिनप्रवचनप्रभावनामकार्षुरिति? एतानिचन शाश्वतानि, तत्रत्यश्रीदेवतादिभिरवचीयमानत्वात्, यदूचुः, श्रीहेमचन्द्रसूरयःस्वोपज्ञपरिशिष्टपर्वणि॥१॥
“तदा च देवपूजार्थमवचित्यैकमम्बुजम् ।
श्रीदेव्या देवतागारं, यान्त्या वज्रषिरेक्ष्यत ।।" इति, नन्वयमनन्तरोक्तोऽर्थकथंप्रत्येतव्यः?,उच्यते, इदमेवद्वितीयपरिक्षेपसूत्रप्रत्यायकं, तथाहि-अत्रैकादशाधिकचतुस्त्रशत्सहस्रकमलानि उक्तदिशि माययितव्यानि, तानि च क्रोशमानानि एकपंक्त्या च तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुस्त्रिशत्सहस्रकोशप्रमाणः स्यात्, सचतदस्याद्यदा मूलक्षेत्रायामव्यासौ साधिकषडविंशतिशतप्रमाणौ स्यातां, तो प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेपद्मजाति पूरणीयेति तात्पर्य, एवमन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थ सिद्धानन्ततां प्रापित इति उच्यते, अन्यथाऽनुपपत्या, न हि यथाक्षरमात्रसन्निवेशंसूरयः सूत्रव्याख्यानपरा भवन्ति, किन्तु प्राकपरार्थाविरोधेन, यदुक्तम्॥१॥ “जंजह सुत्ते भणिअंतहेवतंजइ विआलणा नत्थि।
किंकालिआणुओगो दिट्टो दिटिप्पहाणेहिं ।। इति । अलंप्रसङ्गेनेति।अथ पद्मदहनामनिरुक्तंपृच्छन्नाह- सेकेणट्ठण'मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-पद्मद्रहः पद्मद्रह इति, गौतम ! पद्मद्रहे तत्र तत्र देशे-तस्मिन् देशे २ बहूनि उत्पलानियावत् शतसहस्रपत्राणि पद्मद्रहप्रभाणि-पद्मद्रहाकाराणि आयतचतुरस्राकाराणीत्यर्थः, एतेनतत्र वानस्पतानि पद्मद्रहाकाराणिपद्मानिबहूनि सन्ति, नतु केवलं पार्थिवानिवृत्ताकाराणि महापद्मादीन्येव तत्र सन्तीति ज्ञापितं, तथा पद्मद्रहवर्णस्यैवाभा-प्रतिभासो येषां तानि तथा, ततस्तानितदाकारत्वात्तद्वर्णत्वाच्चपद्मद्रहाणीतिप्रसिद्धानि, ततस्तद्योगादयंजलाशयोऽपिपद्मद्रहः, उभयेषामपि चन नाम्नामनादिकालप्रवृत्तत्वेन नेतरेतराश्रयदोषः, अथ पार्थिवपद्मतोऽप्यस्य नामप्रवृत्तिर्जाताऽस्तीति ज्ञापयितुं प्रकारान्तरेण नामनिबन्धनमाह- श्रीश्च देवी पद्मवासाऽत्र परिवसति, ततश्च श्रीनिवासयोग्यपद्माश्रयत्वात् पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते, मध्यपदलोपिसमासात्, समाधानं शेषं प्राग्वत् । अथ गङ्गामहानदी-स्वरूपमाह
मू. (१२९) तस्स उणं पउमद्दहस्स पुरथिमिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी पुरत्याभिमुही पञ्च जोअणसयाई पव्वएणं गंता गंगा वत्तणकूडे आवत्ता समाणी पञ्च तेवीसे जोअणसए तिन्नि अ एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवत्तएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ।
गंगा महानईजओपवडइइत्थणं महंएगाजिब्भिया पन्नता, साणंजिभिआअद्धजोअणं आयामेणं छ सकोसाइं जोअणाई विक्खंभेणं अद्धकोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org