________________
वक्षस्कारः-१
२५
इति, तथा 'अभिरूवा अभि-सर्वेषां द्रष्टणां मनःप्रासादानुकूतया अभिमुखं रूपं यस्याः सा, अत्यन्तकमनीया इति भावः। ___अतएवप्रतिविशिष्टम् असाधारणंरूपंयस्याः साप्रतिरूपा, अथवाप्रतिक्षणं नवंनवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितृणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तानयनोपायः प्रदर्श्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे लभ्यते, अपान्तराले उपरिष्टादधोगमनेऽमुपायः-जगतीशिखरादधो यावदुत्तीर्णं तस्मिन्नेकेन भक्ते सति यल्लब्धं तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, तथाहि-उपरितनागायोजनमेकं गव्यताधिकमवतीर्णं ततोऽस्य राशेः एकेन भागेहृतेलब्धमेकंयोजनंगव्यूताधिकं, तच्च योजनचतुष्कयुतं क्रियते, जातानिपञ्च योजनानि गव्यूताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं सर्वत्र भाव्यं, सम्प्रति मूलादूर्द्धगमने विस्तारानयनोपायः-मूलादूर्ध्वगमने यावदूर्ध्वं गतं तस्यैकेन भागे हृते यल्लब्धतस्मिन्मूलविस्ताराच्छोधितेयच्छेषंस तत्रयोजनादावतिक्रान्तेविस्तारः, तद्यथा-मूलादुत्पत्य योजनमेकं गव्यूतद्ववाधिकं गतस्ततो योजनस्य गव्यूतद्वयाधिकस्यैकेन भागे हते यल्लब्धं योजनं गव्यूतद्वयाधिकं, एतन्मूलसम्बन्धिनो द्वादशयोजनप्रमाणविस्तारादपनीयते, स्थितानिदशयोजनानि गव्यूतद्वयाधिकानि, एतावत्प्रमाणः सार्द्धयोजनातिक्रमे विस्तारः, एवं सर्वत्रापि भाव्यं ।
एवंऋषभकूटजम्बूशाल्मलीवृक्षवनगतकूटानामिष्टस्थाने विस्तारानयनार्थमिदमेवकरणं भाव्यं, अथास्यां गवाक्षकटकवर्णनायाह-'सा' अनन्तरोदितस्वरूपा 'जगती ण'मिति प्राग्वत् जगती एकेन महावाक्षकटकेन-बृहज्जालकसमूहेन सर्वतः सर्वासु दिक्षु समन्तात्, सामस्त्येन संपरिक्षिप्ता व्याप्तेत्यर्थः, स गवाक्षकटक ऊर्बोच्चत्वेनार्द्धयोजनं द्वे गव्यूते विष्कम्भेन पञ्च धनुःशतानि, सर्वात्मना रत्नमयः, तथा अच्छः, अत्र यावत्करणात् प्राग्व्यावर्णितं विशेषणपदं ग्राह्यं, इयञ्च गवाक्षश्रेणिर्लवणोदपार्बेजगतीभितिबहुमध्यभागगताऽवगन्तव्या, रिरंसुदेवविद्याधरवृन्दरमणस्थानं । अथ जगत्युपरिभागवर्णनायाह
_ 'तस्या' यथोक्तस्वरूपाया जगत्या ‘उपरि' उपरितने तले यो बहुमध्यदेशलक्षणो भागः, भागश्च प्रदेशलक्षणोऽपि स्यात् तत्र च पद्मवरवेदिकाया अवस्थानासम्भवः अतो देशग्रहणेन महान् भाग इत्यर्थः, स च चतुर्योजनात्मकजगत्युपरितनतलस्य मध्ये पञ्चधनुःशतात्मक इति, सूत्रे एकारान्ततामागधभाषालक्षणानुरोघात्, ‘अत्र' एतस्मिन्बहुममध्यदेशभागेणमितिप्राग्वत महती एकापद्मवरवेदिका-देवभोगभूमि प्रज्ञप्तामयाशेषैश्चतीर्थकरैः, सा चऊर्बोच्चत्वेनार्द्धयोजनं पञ्च धनुःशतानि विष्कम्भेन जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका परिक्षेपेण-परिरयेण, कोऽर्थः ?-जम्बूद्वीपस्य सर्वतो वलयाकारएण व्यवस्थिताया जगत्या यावदुपरितनं तलं चतुर्योजनविस्तारात्मकं तस्माल्लवणदिशि देशोनयोजनद्वये त्यक्ते अर्वाक् वावान जगतीपरिरवस्तावानस्याअपीति, सर्वरत्नमयी-सामस्त्येन रत्नखचिता, 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् । अथास्या अतिदेशगर्भवर्णकसूत्रमाह
तस्याः पद्मवरवेदिकाया अय'मिति वक्ष्यमाणतयाप्रत्यक्षः सचोच्यमानीन्यूनाधिकोऽपि स्यादिति एतद्रूपः-एतदेव रूपं-स्वरूपं यस्य स तथा 'वर्णावासो' वर्ण-श्लाधा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णकनिवेश इत्यर्थः, अथवा वर्णव्यासो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org