SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२१ छत्रविशिष्टापताकाचयावत्पदात् ‘सचामरादसणरइअ आलोअदरिसणिज्जा बाउटुअविजयवेजयंती अब्भुस्सिआ गगनतलमणुलिहंती पुरओ अहाणुपुब्बीए' इति ग्राह्य, अत्र व्याख्या ___सचामरा-चामरयुक्तादर्शने-प्रस्थातुष्टिपथेरचितामङ्गल्यत्वात्अतएवालोके-बहि:प्रस्थानभाविनि शकुनानुकूल्यालोकने दर्शनीया-द्रष्टुं योग्या, ततो विशेषणसमासः, काऽसावित्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत् उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया एते च कलशादयः पदार्था पुरतो यथानुपूर्व्या संप्रस्थिता इति । तए ण मित्यादि, ततो वैडूर्यमयो 'भिसंत'त्ति दीप्यमानो विमलो दण्डोयस्मिंस्तत्तथा, यावत्पदात्पलम्ब कोरण्टमल्लदामोवसोहिअंचन्दमंडलनिभंसमूसिविमलं आयवत्तंपवरं सिंहासणंचमणिरयणपायपीढं सपाउआजोगसमाउत्तंबहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं विमलं आयवत्तंपवरं सिंहासणंच मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहानुपुब्बीए संपट्ठिअंति, अत्र व्याख्याप्रलम्बेन कोरण्टा- भिधानवृक्षस्य माल्यदाम्ना-पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छ्रितं-ऊर्वीकृतं विमलाभातपत्रं-छत्रं प्रवरं सिंहासनं च मणिरलमयं पादपीठं-पदासनं यस्मिंस्तत्तथा, स्वः-स्वकीयो राजसत्क इत्यर्थः पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किङ्कराः-प्रतिकर्मपृच्छाकारिणः कर्मकराः ततोऽन्यथाविधास्तेचतेपुरुषाश्चेति समासः पादातं-पदातिसमूहस्तैः परिक्षिप्तं-सर्वतो वेष्टितं तैधृतत्वादेवपुरतो यथानुपूर्व्या संप्रस्थितं । ___ 'तएण'मित्यादि, ततः सप्त एकेन्द्रियरलानि पृथिवीपरिणामरूपाणिपुरतः संप्रस्थितानि, तद्यथा-चक्ररत्लादीनि प्रागभिहितस्वरूपाणि, चक्ररलस्य च एकेन्द्रियरत्नाखण्डसूत्रपाठादेवात्र भणनं, तस्य मार्गदर्शकत्वेन सर्वतः पुर संचरणीयत्वाद्, अत्रच गत्यानन्तर्यस्य वक्तुमुपक्रान्तत्वादिति, 'तयनंतरचणंनव महानिहिओ पुरओ' इत्यादि, ततोनवमहानिधयोऽग्रसःप्रस्थिताः पातालमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छङ्खः सर्वं प्राग्वत्, उक्ता स्थावराणां पुरतो गति किङ्करजनधृतत्वेन दिव्यानुभावेन वा, अथजगमानांगतेरवसर इति तयनंतरंचणं सोलस देव' इत्यादि, ततः षोडश देवसहस्राः पुरतो यथानुपूर्व्या संप्रस्थिताः, 'तयनंतरं च णं बत्तीस मित्यादि, व्यक्तं- 'तएण'मित्यादि, व्यक्तं, नवरं पुरोहितरत्नं-शान्तिकर्मकृत्, रणे प्रहारार्दितानां मणिरत्नजलच्छटया वेदनोपशामकं, हस्त्यश्वरलगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन नात्र कथनं । "तए ण मित्यादि, ततो द्वात्रिंशत् ऋतुकल्याणिकाः-ऋतुषु षट्स्वपि कल्याणिकाःऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः नतु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीवद्वषकन्यारूपास्तासां सहस्र पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकन्यानामग्रेतनसूत्रेणाभिधानाच्च तासांसहस्राः पुरतो यथानुपूर्व्या यथाज्येष्ठलघुपर्यायं संप्रस्थिताः, तथा द्वात्रिंशत् ‘जनवय'त्ति जनपदाग्रणीनां देशमुख्यानां कल्याणिकानां सहन अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराज्जनपदग्रहणेन जनपदाग्रण्यो ज्ञेयाः, न चैवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy