________________
वक्षस्कारः-३
२३९
सुणेत्ता'इत्यादि, प्रतिश्रुत्य च ते देवास्तयोत्कृष्टया त्वरितया गत्या यावद् व्यतिव्रजन्तो २ यत्रैव जम्बूद्वीपो द्वीपो यत्रैव चोत्तरभराद्धं वर्षं यत्रैव च सिन्धुर्महानदी यत्रैव चापातकिरातास्तत्रैवोपागच्छन्ति उपागत्य चान्तरिक्षप्रतिपन्नाः सकिंकिणीकानि पञ्चवर्णानि वस्त्राणि प्रवराणि परिहितास्तानापातकिरातानेवमवादिषुः, किमवादिषुरित्याह- हं भो ! इति सम्बोधने आपातकिराताः यत्णंवाक्यालङ्कारेसर्वत्र यूयं देवा०! वालुकासंस्तारकोपगत यावदष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान्देवान्मनसि कुर्वाणा २ स्तिष्ठत, ततो वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवताः सन्तो युष्माकमन्तिकं प्रादुर्भूताः तद्वदत देवानुप्रियाः! किं कुर्म-किं कार्यं विदध्मः किं आचेष्टामहे-कां चेष्टां कुर्मः-कस्मिन् व्यापारे प्रवर्तामहे किं वा भे-भवतां मनःस्वादितं-मनोऽभीष्टमिति कुलदैवतप्रश्नानन्तरं ते यदचेष्टन्त तदाह
'तएणमित्यादि, ततस्ते आपातकिराता मेघमुखानांनागकुमाराणां देवानामन्तिकेएतमर्थं श्रुत्वा निशम्य च 'हट्टतुडे'त्यादिप्राग्वत् उत्थानं उत्था ऊर्ध्वं भवनंतया उत्तिष्ठन्ति-ऊर्वीभवन्ति इत्यर्थः, उत्थाय च यत्रैव मेघमुखा नागकुमारा देवास्तत्रैवोपागच्छन्ति, उपागत्यच करयले त्यादि प्राग्वत, मेघमुखान् नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, वर्धयित्वा चैवमादिषुरिति, यदवादिषुस्तदाह-एसण मित्यादि, देवानुप्रिया! एष कश्चिदप्रार्थितप्रार्थकादिविशेषणविशिष्टो अस्मद्देशोपर्यागच्छति, तेन तथा प्रकारेण णमिति-एनं धत्तेह-प्रक्षिपत यथा पुन यातीति पिण्डार्थः, अथ यन्मेघमुखा ऊचुस्तदाह-'तए णमित्यादि, व्यक्तं, किमवोचुस्ते इत्याह
__'एस णमित्यादि, हे देवानुप्रिया ! एष भरतो नाम राजा चतुरंतचक्रवर्ती महर्द्धिको महाद्युतिको यावन्महासौख्यः नो खलु एष भरतः शक्यः केनचिद्देवेन वा-वैमानिकेन दानवेन वा-भवनवासिना किन्नरेणेत्यादि पदचतुष्कं व्यन्तरविशेषवाचकं तेन वा शस्त्रप्रयोगेण वा अग्निप्रयोगेणवामन्त्रप्रयोगेणवा, त्रयाणामप्युत्तरोत्तरबलाधिकता ज्ञेया, शस्त्रभ्योऽग्निस्तस्मान्मत्रो बलाधिक इति, उपद्रवयितुंवा-उपद्रवं कर्तुंप्रतिषेधयितुंवा-युष्मद्देशाक्रमणरूपपापकर्मतो निवर्तयितुमिति, सर्वत्र वाशब्दः समुच्चयार्थः, तथापि-इत्थं दुस्साधे कार्ये सत्यपि युष्माकं प्रियार्थतायै-प्रीत्यर्थं भरतस्य राज्ञ उपसर्ग कुर्म इतिकृत्वा तेषामापातकिरातानमन्तिकादपक्रामन्ति-यान्ति निस्सरन्तीत्यर्थ इति प्रतिज्ञातवन्तः, ततः किं कृतवन्त इत्याह
_ 'अवक्कमित्तावेउब्विअसमुग्घाएण'मित्यादि, अपक्रम्यच-व्रजित्वावैक्रियसमुदघातेनउत्तरावैक्रियार्थकप्रयत्नविशेषेण समवघ्नन्ति-आत्मप्रदेशान् विक्षिपन्ति शरीराद् बहिर्विकिर'तीत्यर्थः समवहत्य च तैरात्मप्रदेशैर्गृहीतैः पुदगलैर्मेघानीकं-अभ्रपटलकं विकुर्वन्ति विकुळच यत्रैव भरतस्य विजयस्कन्धावारनिवेशस्तत्रैवोपगच्छन्ति उपागत्य च विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेवेत्यादि सर्वंपुष्कलसंवर्तकमेघाधिकारइववाच्यंयावद्वर्षितुंप्रवृत्ताश्चाप्यभवंस्ते देवाइति।
इति व्यतिकरे यद्भरताधिपः करोति तदाह
मू. (८५) तएणं से भरहे राया उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठिप्पमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासमाणं पासइ २ ता चम्मरयणं परामुसइ, तएणं तं सिरिवच्छ-' सरिसरूवं वेढो भाणिअब्बो जाव दुवालसजोअणाइं तिरिअंपवित्थरइ तत्थ साहिआई।
तएणं से भरहे राया सखंधावारबले चम्मरयणं दुरूहइ २ ता दिव्वं छत्तरयणं परामुसइ, तएणं नवनउइसहस्सकंचणसलागपरिमंडिअंमहरिहंअउझंणिव्वणसुपसत्थविसिठ्ठलट्ठकंचण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org